This page has not been fully proofread.

२५०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
बुद्धिविनष्टा गलिता प्रवृत्तिः
ब्रह्मात्मनोरेकतयाधिगत्या ।
इदं न जानेप्यनिदं न जाने
 
किंवा कियद्वा सुखमस्य पारम् ॥४८२॥
 
ब्रह्मात्मनोरेकतयाधिगत्या साक्षात्कारेण बुद्धिविनष्टा, प्रवृत्ति-
गलिता, इदं प्रत्यक्षगतं न जाने अनिदमपि परोक्षमपि न जाने । पूर्वं
तथा विभाग आसीत् पुरोवति प्रत्यक्षं अपरं परोक्षमिति, इदानीं तथा
नास्तीति कथनं । किंवा कियद्वा सुखं, अस्य पारं किं कियद्वा सुखं ।
एतावन्तं कालं अनुभूतं अखण्डं सुखं इति तत्र कालतः देशतः
वस्तुतश्च अपरिच्छिन्नत्वं कथयति । इदं न जानेप्यनिदं न जाने इत्यनेन
वस्तुतः परिच्छेदो नास्तीत्युक्तं । किंवा कियद्वा सुखमस्य पारमिति कालतो
देशतश्च स नास्तीत्युक्तम् ॥४८२॥
 
वाचा वक्तुमशक्यमेव मनसा मन्तुं नवा शक्यते
स्वानन्दामृत-पूरपूरितपर-ब्रह्मांबुधे-वैभवम् ।
अम्भोराशिविशीर्ण-वार्षिक-शिलाभावं भजन्मे मनः
यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम् ॥ ४८३ ॥
 
वार्षिकशिला वर्षोपलस्तु करकः इत्यमरः ।
 
क्वगतं केन वा नीतं कुत्र लीनमिदं जगत् ।
अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥४८४॥
 
किं हेयं किमुपादेयं किमन्यत् किं विलक्षणम् ।
अखण्डानन्दपीयूष-पूर्णो ब्रह्ममहार्णवे ॥४८५॥
 
नकिंचिदत्र पश्यामि नशृणोमि न वेद्यहं ।
स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ॥ ४८६ ॥
 
पंच-कोशविलक्षण इत्यर्थः ॥ ४८६ ॥