2023-02-20 14:43:14 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
वेदान्तसिद्धान्त - निरुक्तिरेषा ब्रह्मैव जीवः सकलं जगच्च ।
अखण्डरूपस्थितिरेव मोक्षः ब्रह्माद्वितीयं श्रुतयः प्रमाणम् ॥४७९॥
२४९
वेदान्तैः सिद्धः यः अन्तः निर्णयः तस्य निरुक्ति: तज्जनक-संकुचित
शब्द:, एषा, जीव: ब्रह्मैव सकलं जगच्च ब्रह्मैव, मोक्षः अखण्डरूपस्थितिरेव
ब्रह्मस्वरूपेणावस्थानं इत्यर्थः । ब्रह्माद्वितीयं, तत्र प्रमाणं श्रुतयः । श्रुतीनां
बहुत्वेपि सर्वाभिरपि जनिष्यमाणप्रमायाः एकत्वात् प्रमाणमित्येकवचनं ।
वेदान्तानां यः सिद्धान्त: निर्णीतार्थः, सिद्धान्तशब्दस्य तत्तच्छास्त्र - सिद्धार्थ-
रूपतया परैर्व्याकृतत्वात् तस्य निरुक्ति: निर्णयजनकसंकुचितशब्द:
निर्वचनमिति वार्थः । तत्वमसि, सर्वं खल्विदं ब्रह्म ब्रह्मैवेदं विश्वं,
एकमेवाद्वितीयं, इत्यादिश्रुतयः ॥४७९॥
>
इति गुरुवचनाच्छृतिप्रमाणात्
परमवगम्य सतत्व-मात्मयुक्त्या ।
प्रशमितकरण: समाहितात्मा
क्वचिदचलाकृति-रात्मनिष्ठितोभूत् ॥४८०॥
(6
इति पूर्वं विस्तर - संग्रहरूपेण कथितात् गुरुवचनात् श्रुतिप्रमाणात्
श्रुतयः प्रमाणानि यस्य गुरुवचनस्य तत् श्रुतिप्रमाणं तस्मात् । शास्त्रं
युक्तिः देशिकोक्तिः प्रमाणं चान्तः सिद्धा स्वानुभूतिः प्रमाणं " इत्यत्र
शास्त्रस्य पृथक्कीर्तनात् श्रुतिरूपप्रमाणादिति वा अर्थः । आत्मयुक्त्या श्रुत्या-
चार्योपदिष्टार्थ-मननेनेत्यर्थः । परं सतत्त्वं परं ब्रह्म परमार्थतत्त्वं अवगम्य
प्रशमितकरणः प्रकर्षेण शमितानि करणानि चक्षुरादीनि बाह्यानि येन ।
यद्वा आत्मयुक्त्या, युक्तिः योग: वृत्तिनिरोध आत्मनः मनसः वृत्ति -
निरोधेन करणानि बाह्यानि प्रकर्षण शमितानि इति सुवचम् । सम्यगाहितः
ब्रह्मणि स्थापितः आत्मा अन्तःकरणं येन यस्येति वा, मनोवृत्तिनिरोधेन
चक्षुराद्युपशमेपि नात्मनिष्ठा अत उक्तं समाहितात्मेति । क्वचिदेकान्त-
प्रदेशे अचलाकृतिः पर्वतवदप्रकम्प्य:, आत्मनिष्ठितः ब्रह्मनिष्ठः अभूत् ।
आत्मनि स्थितः आत्मनिष्ठितः, जातात्मनिष्ठ इति वा ॥४८० ।
कंचित्कालं समाधाय परे ब्रह्मणि मानसम् ।
व्युत्थाय परमानन्दादिदं वचनमब्रवीत् ॥४८१ ॥