This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
स्वस्य आत्मनः अविद्या-बन्ध-संबन्ध-मोक्षात् अविद्यया ये बन्धाः

अहंकारादिदेहान्ताः तैः यः संबन्ध: आध्यासिक-तादात्म्यं तस्मान्मोक्षः

स्वस्वरूपावबोधेन वियोगः, तस्मात् सत्यज्ञानानन्दरूपात्मलब्धौ सत्य-

ज्ञानानन्दरूपः यः आत्मा स्वस्वरूपं तस्य लब्धौ प्राप्तौ विषये शास्त्रं

"अस्य महिमानमिति वीतशोकः" "ब्रह्मविदाप्नोति परं" इत्यादि युक्तिः

कण्ठचामीकरन्यायः, देशिकोक्तिः "तत्वमस्यादिवाक्योत्थ-ब्रह्मात्मैकत्व-

बोधतः । ब्रह्मण्यात्मत्व- दार्ढ्याय स्वाध्यासापनयं कुरु" इत्यादिः प्रमाणं

अन्तः सिद्धा शास्त्र - -युक्ति गुरूक्त्यनुरूपा स्वानुभूतिश्च प्रमाणम् ॥४७५॥
 

 
उक्तार्थे दृष्टान्तार्थं अनुभवप्रमाणकानन्यानप्याह । बन्ध इति ।
 

 
बन्धो मोक्षरच तृप्तिश्च चिन्तारोग्य - -क्षुधादयः ।

स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ॥ ४७६॥
 
२४८
 

 
अविद्या तदस्तमय: अलंबुद्धिः चिन्ता आरोग्यं क्षुत् पिपासा, रोग:

कुक्षिशूलादिः आदिपदार्थः । स्वेनैव वेद्या: साक्षादनुभवगम्याः यत् यस्मात्

परेषां ज्ञानं आनुमानिकं परोक्षं हेतोर्दुष्टत्वे भ्रमात्मकं च स्यादिति
 

भावः ॥४७६॥
 

 
तटस्थिता बोधयन्ति गुरवश्श्रुतयो यथा ।

प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया ॥४७७॥
 

 
यथा नद्यां नावि गच्छन्तं एवमेवं क्षेपणीं क्षिपेति तटस्थितः बोधयति

स्वयं क्षेपणाकुशलं तथा गुरवोपि तथा श्रुतयः उपनिषदः तटस्थिताः

परोक्षज्ञानजनकाः तथा मार्गं दर्शयन्ति । विद्वान् ईश्वरानुगृहीतया प्रज्ञयैव

"ब्रह्मात्मनोश्शोधितयो" रिति लक्षितया चिन्मात्रवृत्यैव तरेत् संसार -

वारिधिमिति शेष: ॥४७७॥
 

 
स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् ।

संसिद्धः सुसुखं तिष्ठेन्निर्विकल्पात्मनात्मनि ॥ ४७८॥

 
स्वमात्मानं अखण्डितं स्वयं स्वानुभूत्या ज्ञात्वा, संसिद्ध : आत्मनि
 

निर्विकल्पात्मना सुसुखं तिष्ठेत् इत्यन्वयः । स्पष्टोर्थः॥४७८॥