This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
मन्दमध्यम-रूपापि वैराग्येण शमादिना ।
 
प्रसादेन गुरोस्सेयं प्रवृद्धा सूयते फलम् ॥ २९॥
 
इत्थं च मुमुक्षाया मोक्षेच्छारूपत्वेपि यदा सा प्रवृद्धा तदैवफलं
प्रसूत इत्यनेन तत्प्रवृद्धयर्थं विषयवैराग्य शमादिषट्क-गुरुप्रसादलाभार्थं
प्रयत्नः कर्तव्यः पुरुषेणेत्युक्तं भवति ॥२९॥
 
साधनचतुष्टयमध्ये द्वितीयतुरीयसत्वे सर्वं तत्रास्ति नान्यथेत्याह ।
वैराग्यमिति ।
 
वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते ।
तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥ ३०॥
 
२१
 
अर्थवन्तश्शमादय इत्यत्र शमादयइत्यस्य शमादिशब्दा इत्यर्थ: ।
तस्मिन्पुरुषे शमादयस्सन्तीति व्यवहारस्सार्थक इति भावः । अयं शान्तो
दान्तः इत्यादिशब्दभाक् तीव्रवैराग्यवान् तीव्रमुमुक्षुतावांश्चेत्यर्थः तीव्र-
मुमुक्षुत्वस्यैव शमादिफलत्वात् । यदि तीव्रमुमुक्षुत्वं तदा साधनं विना
फलालाभात् कार्यात्कारणमनुमीयत इति शमादिमत्वं तस्य सुवचं ।
एवं शमादिसाधनं तीब्रवैराग्यं यदा तस्मिन्ज्ञायते, साधने सतिफलावश्यं-
भावात् शमादिमत्वं तस्मिन्नवर्जनीयम् । इत्थं च शमादिसाधने सति
तीव्रवैराग्यशमादिफले च तीव्रमुमुक्षुत्वे स्वसाधन-फलमध्यवर्ति स्वयं
निरपवादमिति भावः । तीव्रवैराग्ये शमादिशब्दा: अर्थवन्तः, तीव्र-
मुमुक्षुत्वे शमादयः फलवन्तः इति विभागः । शमादीनां इतरान्तःकरण-
निष्ठानां दुर्ज्ञानत्वात् कारणकार्याभ्यां अवगन्तव्यत्वमुक्तम् । स्वयमपि
पुरुषेण शान्त्यादिकं समपादीति कथं ज्ञेयं इत्युक्तौ पुष्कलकारणे तीव्र-
वैराग्ये विशिष्टफले तीव्रमुमुक्षुत्वे च सति तथेति स्वस्मिन् परस्मिंश्च
कारणकार्ये ज्ञापके इति भावः । काकस्य विष्ठावदसह्यबुद्धि-र्भोग्येषु
सा तीव्रविरक्तिरिष्यते । विरक्तितीव्रत्व-निदानमाहु भोग्येषु दोषेक्षणमेव
सन्तः इति वैराग्ये तीव्रत्वं तत्साधनं च कथितं सर्ववेदान्त-सिद्धान्त -
सार-संग्रहे । मुमुक्षुत्वे तीव्रत्वं प्रवृद्धत्वमेव । तत्तु प्रागभिहितम् ॥ ३०॥
 
(2
 
एतयोर्मन्दता यत्र विरक्तत्व-मुमुक्षयोः ।
मरौ सलिवत्तत्र शमादेर्भानमात्रता ॥ ३१ ॥