This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
२४७
 
"माभैष्ट विद्वंस्तव नास्त्यपाय: संसारसिंधोस्तरणेस्त्युपायः ।
येनैव याताः यतयोस्य पारं तमेव मार्गं तव निदिशामि" इति यदुक्तं
तत्समापयति । भवानपीत्यादिना ।
 
भवानपीदं परतत्त्वमात्मनः
 
स्वरूपमानन्दघनं निचाय्य ।
विध्य मोहं स्वमनः प्रकल्पितं
 
मुक्तः कृतार्थो भवतु प्रबुद्धः ॥ ४७३॥
 
भवानपि आत्मनः भवतः स्वरूपं आनन्दघनं इदं परतत्वं ब्रह्म
निचाय्य साक्षात्कृत्य स्वमन:प्रकल्पितं मोहं अनात्मस्वात्मभ्रमं विधूय
समूलं विनाश्य प्रबुद्धः अविद्यानिद्रारहितः मुक्त: अध्यासरूप-बन्धान्मुक्त:
कृतार्थो भवतु इत्याशीरूपोपदेशः ॥४७३॥
 
समाधिना साधु सुनिश्चलात्मना
पश्यात्मतत्वं स्फुटबोधचक्षुषा ।
निस्संशयं सम्यगवेक्षितश्चेत्
 
॥४७४॥
 
श्रुतः पदार्थो न पुनर्विकल्पते ॥४७४॥
 
"}
 
सुष्टु निश्चल: आत्मा अन्तःकरणंयस्मिन्तेन समाधिना निर्विकल्पकेन
स्फुटं यद् बोधरूपं चक्षुः " निर्विकल्पक-समाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते
ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत्
इत्युक्तं । तेन बोधचक्षुषा रूपं यथा बाह्यचक्षुषा तथा साधु असंदिग्धा-
विपर्यासं, आत्मतत्त्वं पश्य साक्षात्कुरु । श्रुतः आप्तमुखेन श्रुतः पदार्थ :
निस्संशयं क्रियाविशेषणं संशयाविषयः सन् सम्यगविपर्यस्तः अवेक्षितश्चेत्
अनुभव-गोचरतामापादितश्चेत् पुनर्न विकल्पते नान्यथा भातीत्यर्थः
 
स्वस्याविद्या-बन्ध-संबन्धमोक्षात्
सत्यज्ञानानन्दरूपात्मलब्धौ ।
शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं
 
चान्तः सिद्धा स्वानुभूतिः प्रमाणम् ॥४७५ ॥