This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
"
 
यत् मनोवाचां अगोचरं, तत् तस्मात् अनिरूप्यस्वरूपं केवलानुभवैक-

वेद्यमित्यर्थः । "वाचा वक्तुमशक्यमेव मनसा मन्तु " मिति वक्ष्यते

शिष्योक्तिमुखेन ॥४७०॥
 
२४६
 

 
सत् समृद्धं स्वतस्सिद्धं शुद्धं बुद्धमनीदृशम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥४७१॥
 

 
सत् अवाबाध्यं, समृद्धं अखण्डानन्दरूपं, स्वतस्सिद्धं सर्वप्रमाणप्रवृत्ति-

हेतुत्वात् । शुद्धं दोषास्पृष्टं, बुद्धं ज्ञानरूपं, अनीदृशं इदमिव दृश्यत इति

ईदृशं न ईदृशं निरुपमं बुद्धौ धारया सूक्ष्मतमार्थं ग्राहयितंतुं एवं श्रौतार्थस्य

कथनीयत्वात् ईदृशस्थलेषु पौनरुक्त्याशंका नैव कार्या ॥४७१ ॥
 

 
निरस्तरागा निरपास्तभोगाः
 

शान्तास्सुदान्ता यतयो महान्तः ।

विज्ञाय तत्त्वं परमेतदन्ते
 

प्राप्ताः परां निर्वृतिमात्मयोगात् ॥४७२॥
 
"
 

 
निरस्तः रागः यैस्ते निरस्तरागा: दूरीकृतविषयेच्छा :, निरपास्त-

भोगा: अत एव निरपास्त: भोग: यैस्ते नितरां त्यक्तभोगाः । यदृच्छा-

लाभसंतुष्टा: रागसत्वे हि भोगः उक्तं हि पूर्वं "अन्यावेदितभोग्यभोग-

कलनो निद्रालुवद् बालवत् " इति । यद्वा शीतोष्णादिद्वन्द्व -सहिष्णव इति

तत्पदस्यार्थः । शान्ताः ब्रह्मणि स्थापितमनसः सुदान्ताः निगृहीत-

बहिरिन्द्रियाः, यतयः प्रयत्नशीलाः । महान्तः बहिरिन्द्रियद्वारा निर्गतस्य

मनसः परिच्छिन्नविषयाकारेण परिणामे तदुपहितः जीवोप्यल्पो भवति

न शान्तानां दान्तानां च तथात्वमिति । निरन्तरमन्तर्मुखमनसां महत्वं

सहजमेव । तादृशाः पुरुषचौरेयाः एतत् "परिपूर्ण मनाद्यन्तं " इत्यादिना

संकीर्तितं परं तत्त्वं सर्वोत्कृष्टं ब्रह्म विज्ञाय, आत्मनि योगः आत्मयोगः

निर्विकल्पकसमाधिः तस्माद्धेतोः परां निवृतितिं नित्यनिरतिशयानन्दरूपां

मुक्तितिं अन्ते ज्ञानप्राप्त्यनन्तरं, प्राप्ताः अवापुः । अन्ते प्रारब्धकर्मणो वा

अन्ते देहपात इति यावत् परां निवृतितिं विदेहकैवल्यं प्राप्ताः, तदा आत्म-

योगाद्विज्ञाय इति संबन्धः ॥४७२ ॥