This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
"
 
यत् मनोवाचां अगोचरं, तत् तस्मात् अनिरूप्यस्वरूपं केवलानुभवैक-
वेद्यमित्यर्थः । वाचा वक्तुमशक्यमेव मनसा मन्तु " मिति वक्ष्यते
शिष्योक्तिमुखेन ॥४७०॥
 
२४६
 
सत् समृद्धं स्वतस्सिद्धं शुद्धं बुद्धमनीदृशम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥४७१॥
 
सत् अवाध्यं, समृद्धं अखण्डानन्दरूपं, स्वतस्सिद्धं सर्वप्रमाणप्रवृत्ति-
हेतुत्वात् । शुद्धं दोषास्पृष्टं, बुद्धं ज्ञानरूपं, अनीदृशं इदमिव दृश्यत इति
ईदृशं न ईदृशं निरुपमं बुद्धौ धारया सूक्ष्मतमार्थं ग्राहयितं एवं श्रौतार्थस्य
कथनीयत्वात् ईदृशस्थलेषु पौनरुक्त्याशंका नैव कार्या ॥४७१ ॥
 
निरस्तरागा निरपास्तभोगाः
 
शान्तास्सुदान्ता यतयो महान्तः ।
विज्ञाय तत्त्वं परमेतदन्ते
 
प्राप्ताः परां निर्वृतिमात्मयोगात् ॥४७२॥
 
"
 
निरस्तः रागः यैस्ते निरस्तरागा: दूरीकृतविषयेच्छा :, निरपास्त-
भोगा: अत एव निरपास्त: भोग: यैस्ते नितरां त्यक्तभोगाः । यदृच्छा-
लाभसंतुष्टा: रागसत्वे हि भोगः उक्तं हि पूर्वं "अन्यावेदितभोग्यभोग-
कलनो निद्रालुवद् बालवत् " इति । यद्वा शीतोष्णादिद्वन्द्व सहिष्णव इति
तत्पदस्यार्थः । शान्ताः ब्रह्मणि स्थापितमनसः सुदान्ताः निगृहीत-
बहिरिन्द्रियाः, यतयः प्रयत्नशीलाः । महान्तः बहिरिन्द्रियद्वारा निर्गतस्य
मनसः परिच्छिन्नविषयाकारेण परिणामे तदुपहितः जीवोप्यल्पो भवति
न शान्तानां दान्तानां च तथात्वमिति । निरन्तरमन्तर्मुखमनसां महत्वं
सहजमेव । तादृशाः पुरुषचौरेयाः एतत् "परिपूर्ण मनाद्यन्तं " इत्यादिना
संकीर्तितं परं तत्त्वं सर्वोत्कृष्टं ब्रह्म विज्ञाय, आत्मनि योगः आत्मयोगः
निर्विकल्पकसमाधिः तस्माद्धेतोः परां निवृति नित्यनिरतिशयानन्दरूपां
मुक्ति अन्ते ज्ञानप्राप्त्यनन्तरं, प्राप्ताः अवापुः । अन्ते प्रारब्धकर्मणो वा
अन्ते देहपात इति यावत् परां निवृति विदेहकैवल्यं प्राप्ताः, तदा आत्म-
योगाद्विज्ञाय इति संबन्धः ॥४७२ ॥