This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
२४५
 
(6
 
परिपूर्ण देशपरिच्छेदशून्यं अनाद्यन्तं उत्पत्तिनाशविधुरं, अप्रमेयं

फलव्याप्तिशून्यं अविक्रियं अपरिणामि एकं स्वगतभेदरहितं, एव सजातीय-

भेदरहितं अद्वयं विजातीय भेदरहितं, इह ब्रह्मणि, किंचन किंचिदपि, नाना

नानात्वं भेद इत्यर्थ: नास्तीतिश्रुतिः सकलविधभेदशून्यं ब्रह्म ब्रूते । मन-

सैवानुद्रष्टव्यं नेह नानास्ति किंचन । मृत्योस्स मृत्युमाप्नोति य इह नानेव

पश्यति" इति बृहदारण्यकश्रुति: । एकमेवाद्वितीयमिति छान्दोग्यश्रुतिः

अर्थत उक्ता एकमेवामिति ॥४६५॥
 

 
श्रौतशब्द:दैः श्रुत्यर्थानुसारि - स्वशब्देदैश्च परमार्थतत्त्वं ब्रूते

 
सद्धनं चिद्धनं नित्यमानन्दघन-मक्रियम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किचन ॥४६६॥
 

 
घनः मूर्तिः, सच्छरीरं, चिच्छरीरं, नित्यं आनन्दशरीरं, सच्चि-

दानन्दस्वरूपमित्यर्थः । अक्रियं सृष्ट्यादिक्रियाशून्यम् ॥ ४६६॥
 

 
प्रत्यगेकरसं पूर्णं अनन्तं सर्वतोमुखम् ।
 

एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ ४६७॥
 

 
सर्वात्मभूतं व्यापि, नाशरहितं, सर्वात्मभूतत्वादेव सर्वतोमुखं " त्वं

जातो भवसि विश्वतोमुखः" इतिश्रुतेः ॥४६७ ॥
 

 
अहेतुमनुपादेयं अनाधेयमनाश्रयम् ।
 

एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ ४६८॥
 

 
स्वात्मत्वादहेयं अनुपादेयं च, निष्प्रपंचत्वादनाधेयं न विद्यते आधेयं

यस्य । अनाश्रयं न आश्रयो यस्य निराधारं, अहेयं निर्दोषं अनुपादेयं

निर्गुणमिति वा अर्थः ॥४६८॥
 

 
निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरंजनम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥४६९ ॥

 
अनिरूप्यस्वरूपंयन्मनोवाचामगोचरम् ।

एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ ४७०॥