This page has been fully proofread once and needs a second look.

२४४
 
श्रीविवेकचूडामणिः सव्याख्यः
 
शंकावंतः तान् शंकावतः जडान् प्राकृतान् मन्दान् समाधातुं बाह्यदृष्ट्या

व्यवहाररीत्या प्रारब्धं श्रुतिर्वदति " यावन्नविमोक्ष्ये " इत्यादिना ॥४६३ ॥
 

 
कर्मजन्यं शरीरादि न शुक्तिरजतादिवत् प्रातीतिकं किंतु सत्यमिति

वक्तुमिति कदापि न भ्रमितव्यमित्याह । नत्विति ।
 

 
नतु देहादिसत्यत्व-बोधनाय विपश्चिताम् ।

यतः श्रुतेरभिप्रायः परमार्थैकगोचरः ॥४६४॥
 
"
 

 
विपश्चितां ज्ञानिनां यद्देहादि तस्य सत्यत्वबोधनाय प्रारब्धं तु

वक्ति । विपश्चितामित्यस्य बोधनायेत्यनेन वा संबन्धः । ज्ञानेन तेजसा

तिमिरस्येव जगदुपादानभूताज्ञानस्य नाशेपि देहः प्रारब्धनाशे नश्यति

तावान्विलंब इत्युक्त्या तस्य आज्ञानिकत्वं नास्ति किंतु कर्मजन्यतया

सत्यत्वमिति प्रतीयेत, नत्वेवं, तार्किकादिमते तन्तूपादानकस्य पटस्य

तन्तुनाशक्षणे निरुपादानकतया स्थितिवत् "उपादाने विनष्टेपि क्षणं

कार्य प्रतीक्षते । इत्याहुस्तार्किकास्तद्वदस्माकं कि न संभवेत् । तंतूनां

दिनसंख्यानां तैस्तादृक् क्षण ईरितः । भ्रमस्या-संख्यकल्पस्य योग्यः क्ष
णं
इहेष्यताम् "। इति चित्रदीपोक्तरीत्या अनादिकालप्रवृत्ताज्ञानोपादान-

कस्यापि देहादे: अज्ञाननाशानन्तरं कंचित्कालं स्थितेर्वक्तुं शक्यत्वात् ।

विजिगीषुकथायामेतादृश - समाधानं "न निरोधो नचोत्पत्तिः न बद्धो

न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता " इतिश्रुत्यनुसारेण

ब्रह्ममात्रस्य परमार्थत्वात् । "ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ।

तिष्ठत्ययं कथं देह " इति जडानां शंकासमाधानार्थं श्रुतिः प्रारब्धं वक्तीति

वस्तुस्थितिः । यतः श्रुतेरभिप्राय: परमार्थंथैक-गोचरः प्रमाणान्तरानधिगत-

प्रयोजनवदबाधितार्थ-विषयक इत्यर्थः । नहि ज्ञानिनां अज्ञाननाशानन्तर-

मपि कर्मसमाप्तिपर्यन्तं शरीरं तिष्ठतीति प्रतिपादनेन किंचित्फलमस्तीति

तस्य तावदेवेति श्रुतिः मन्दशंकासमाधानार्थमेवेतिभावः ॥४६४॥
 

 
इदानीं श्रुतितात्पर्यविषयं परमार्थं सप्तभिः श्लोकै: संगृह्णाति ।

परिपूर्णमित्यादिभिः ।
 

 
परिपूर्णमनाद्यन्तं अप्रमेय-मविक्रियं ।
 

एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ ४६५॥