2023-02-20 14:43:13 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
तत्स्पष्टयति । प्रारब्धमिति ।
प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः ।
देहात्मभावो नैवेष्ट: प्रारब्धं त्यज्यतामतः ।
शरीरस्यापि प्रारब्ध कल्पना भ्रान्तिरेव हि ॥ ४६१ ॥
66
यदा देहात्मना स्थितिः तदा देहधर्म - प्रारब्धं कल्पनया वा आत्मनः
सिध्यति । देहात्मभाव: नैवेष्ट: अध्यासमूलाज्ञानस्य नष्टत्वात् । अतः
प्रारब्धं त्यज्यतां आत्मनि प्रारब्धप्रसंगः न कार्य इतिभावः । विचार्यमाणे
शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि निश्चयः ॥४६१ ॥
तदुपपादयति । अध्यस्तस्येति ।
अध्यस्तस्य कुतस्सत्त्वं असत्त्वस्य कुतो जनिः ।
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥४६२॥
असत्त्वस्य न विद्यते सत्त्वं यस्य तत् असत्त्वं तस्य असतः इत्यर्थः ।
जनिः उत्पत्तिः कुतः ? नास्तीत्यर्थः । अजातस्य नाशः कुतः ? सोपि न ।
उत्पत्यर्थं प्रारब्धस्वीकारः, नो चेत् लोकसिद्धं देवतिर्यङ्मनुष्यादिवैषम्यं
दुरुपपादमिति, ब्रह्मव्यतिरिक्तस्य सर्वस्यमिथ्यात्वं यदा अवसितं तदा
शुक्तिरजतादिवत् केवलाज्ञानतः प्रतिभासमानस्य न कर्मनिमित्तकत्वं ।
स्थाणुमन्येनु- संयन्ति यथाकर्म यथाश्रुतं" इत्यादिश्रुतिरपि व्यवहार-
दृष्ट्या वदतीति भावः ॥४६२ ॥
२४३
इदानीं तस्य तावदेव चिरं यावन्नविमोक्ष्ये अथ संपत्स्ये इति
श्रुतितात्पर्यमाह । ज्ञानेति ।
"
ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ।
तिष्ठत्ययं कथं देह इतिशंकावतो जडान् ।
समाधातुं बाह्य दृष्ट्या प्रारब्धं वदति श्रुतिः ॥ ४६३ ॥
अज्ञानकार्यस्य वियदादिप्रपंचस्य अहंकारादिदेहान्तस्य च बाह्या-
ध्यात्मिकस्य समूलस्य मूलमज्ञानं तेन सहितस्य, ज्ञानेन ब्रह्मसाक्षात्कारेण
यदि लय: बाधः, अयं देहः पांचभौतिकः कथं तिष्ठति इतिशंका एषामस्तीति