This page has not been fully proofread.

२४२
 
श्रीविवेकचूडामणः सव्याख्यः
 
तत्काले भातजगत् तज्जगत् स्वाप्निकं जगदित्यर्थः । तस्य संग्रहः स्वीकारः
न दृष्टः । यदि तत्र मृषार्थे देहजगदादिरूपे अनुवृत्तिः मनसः जाग्रत्कालिक-
वस्तुनीव, न निद्रया मुक्त इति ध्रुवमिष्यते ॥४५७॥
 
तद्वत्परे ब्रह्मणि वर्तमानः सदात्मना तिष्ठति नान्यदीक्षते ।
स्मृतिर्यथा स्वप्नविलोकितार्थे तथाविधः प्राशनमोचनादौ ॥ ४५८॥
 
"
 
तद्वत् सुप्तप्रबुद्धवत् परे ब्रह्मणि वर्तमानः संस्थापितमनाः पुमान्
सदात्मना अबाध्यासंगचिद्रूपेण तिष्ठति । अन्यत् नेक्षते अन्यस्यासत्वात्
" यत्र नान्यत्पश्यति " इत्यादिश्रुतेः "यत्र त्वस्य सर्वमात्मैवाभूत तत्केन कं
पश्येत् " इतिश्रुतेश्च ब्रह्मविदोषि अन्नादानविसर्गादिकं कुर्वन्तीति मन्द-
शंकायामुत्तरमाह स्मृतिरिति । प्रबुद्धस्य स्वप्नविलोकितार्थं यथा स्मृतिः
न तत्र सत्यत्वबुद्धिः तथा विदः ज्ञानिनः प्राशनमोचनादौ, "नाप्रतीति-
स्तयोर्बाधि: किंतु मिथ्यात्वनिश्चयः इतिपंचदश्यां । स्वप्ने स्वात्मानं
व्याघ्रं मन्वानोपि प्रबुद्धः न तत्सत्यत्वं मनुते किंतु स्मृति: स्यात् तथा पूर्वं
प्राशनमोचनादिकर्तृ शरीरं अहंतया अमन्यत इदानीं स्ववास्तविकस्वरूपं
दृष्टवतः अहंतां विना प्राशनादिकर्तृ शरीरं प्रतीयेत पृथक्तया, व्युत्थानेपीति
भावः ॥४५८ ॥
 
"
 
आत्मनः प्रारब्धं कर्म नास्तीत्यंशं युक्त्या समर्थयति । कर्मणेति ।
कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यतां ।
नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥४५९॥
अजो नित्य इति ब्रूते श्रुतिरेषा त्वमोघवाक् ।
तदात्मना तिष्ठतोस्य कुतः प्रारब्ध कल्पना ॥४६०॥
 
"(
 
आत्मनोनादित्वे प्रमाणमाह । अजो नित्य इति । 'अजो नित्यः
शाश्वतोयं पुराणो न हन्यते हन्यमाने शरीरे" इत्यादिकठश्रुतिः ।
अमोघवाक् अमोघा अबाधितार्थका वाक् यस्याः, घटकत्वं षष्ठ्यर्थः ।
तदात्मना स्ववास्तविकस्वरूपेण तिष्ठतोस्य ज्ञानिन: प्रारब्धकल्पना कुतः ?
देहात्मना स्थितौ प्रारब्धाश्रय-देहतादात्म्याध्यासेन तद्धर्म-प्रारब्धाध्यासोपि
स्यात् न ज्ञानिनि सा कथा ॥४६०॥