This page has not been fully proofread.

तेषां तत् त्रितयं
 
निर्गुणं ब्रह्मैव ।
 
॥४५४॥
 
श्रीविवेकचूडामणिः सव्याख्यः
 
२४१
 
त्रिविधमपि कर्म नहि क्वचिदपि कदाचिदपीत्यर्थः । ते
ततः सत्वादिगुणकार्याणां नैव प्रसक्तिरिति भावः
 
तत्स्फुटयति । उपाधीति ।
 
उपाधितादात्म्य-विहीन - केवल
ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः ।
 
प्रारब्ध-सद्भाव-कथा न युक्ता,
स्वप्नार्थ-संबन्धकथेव जाग्रतः ॥४५५॥
 
अज्ञानदशायां आध्यासिक-मुपाधितादात्म्यं जीवस्य आसीत् ।
इदानींतु
समुपजात-परापरैकत्वविवेक-प्रकर्षेण
 
त्याचार्यप्रसादेन
 
(6
 
उपाधिभिः अहंकाराकिभिः यत्तादात्म्यं तद्विहीनं यत् केवलं ब्रह्म त्रिविध
परिच्छेदशून्यं निर्विकल्पं निष्प्रपंचं ब्रह्मतत्तादात्म्येनैव आत्मानि तिष्ठतः
स भगवः कस्मिन्प्रतिष्ठित इति, स्वं महिम्नि " इतिश्रुतेः । पूर्वमुपाधिषु-
स्थितिरासीत् तदिदानीं नास्तीत्यावेदयितुं आत्मनि तिष्ठत इति
कथितम् । स्वस्थस्य मुनेः प्रारब्धसद्भाव-कथा न युक्ता तत्र दृष्टान्तः जाग्रतः
प्रबुद्धस्य स्वप्नार्थसबन्ध कथेवेति ॥४५५॥
 
तत्स्फुटयति । नेति ।
 
न हि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्यपि च प्रपंचे ।
करोत्यहन्तां ममतामिदंतां किन्तु स्वयं तिष्ठति जागरेण ॥४५६॥
न तस्य मिथ्यार्थ-समर्थनेच्छा न संग्रहस्तज्जगतोपि दृष्टः ।
तत्रानुवृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्रुवम् ॥४५७॥
 
प्रबुद्धः स्वप्नादुत्थितः पुरुष: प्रतिभासदेहे स्वप्नकाले भातदेहे,
देहोपयोगिनि प्रपंचेपि क्रमेण अहंतां ममतां इदन्तां च न करोति । हि
निश्चयः किंतु स्वयं जागरेण तिष्ठति । नहि स्वप्ने पश्वादिरूपतां स्वस्य
दृष्ट्वा जाग्रत् सः तृणादिकं भक्षयति स्वकीय-नियमं वा त्यजति ।
तस्य मिथ्यार्थसमर्थनेच्छा स्वप्नभात-देहादिपदार्थ समर्थनेच्छा नास्ति ।