This page has not been fully proofread.

२४०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
मतौ जातायामपि न तिष्ठति निवृत्तगतिर्न भवति ।
सम्यक् लक्ष्यं पुरोवस्तु छिनत्येव हिनस्त्येव ।
प्रवृत्तत्वात् ब्रह्मसाक्षात्कारोदयेपि स्वफलं दत्वैव क्षीयते इति । इतरे
आरब्धफले पुण्यपापे भोगेन तत्फलानुभवेन क्षपयित्वा संपद्यते विदेहमुक्तो
भवतीति सूत्रार्थः । एवं तस्य ज्ञानिनः तावदेव चिरं तावानेव विलंब
यावन्नविमोक्ष्ये प्रारब्धकर्माधीनतया शरीरान्नविमोक्ष्यते, अथ शरीर-
पातानन्तरं संपत्स्ये संपत्स्यते विदेहमुक्तो भवति इति श्रुतेरर्थः ॥४५३ ॥
 
वेगेन निर्भरं नियतं
एवं फलदानाय
 
उक्तश्रुतिसूत्रार्थं सर्वं पूर्वार्धन संगृह्य परमार्थमाह उत्तरार्धेन ।
प्रारब्धमिति ।
 
प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः
 
सम्यज्ज्ञान - हुताशनेन विलयः प्राक्संचितागामिनां ।
ब्रह्मात्मैक्य - मवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः
तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥ ४५४॥
ज्ञानस्यैकरूपत्वेपि समाधिप्रकर्षेण ब्रह्मवित्, ब्रह्मविद्वरः, ब्रह्म-
विद्वरीयान्, ब्रह्मविद्वरिष्ठः इति सत्वापत्त्यसंसक्ति-पदार्थाभावना-तुर्यगेति
भूमिकानुसारेण समुपजातब्रह्मसाक्षात्काराः व्यवह्रियन्ते । तत्र तुर्यगाख्य-
भूमिकांगतस्य ब्रह्मविद्वरिष्ठस्य केवल निर्गुणब्रह्मरूपत्वात् परकृतप्रबोधोपि
नास्तीति त्रिविधमपि कर्मं नास्ति । ब्रह्मविद्वरीयसः परकृतप्रबोधे प्रपंचभानं
तदा प्रारब्धं व्याप्रियेत यथा प्रह्लादस्य महाविष्णु-पांचजन्यरवश्रवणेन
समाधेर्व्युत्थानं । ब्रह्मविद्वरस्य स्थितप्रज्ञस्यापि कर्मवशात् स्वयं व्युत्थितस्य
सुखदुःख
दुःखादिभानं गीतासु स्पष्टं प्रतीयते "स्थितप्रज्ञस्य का भाषा
इत्यर्जुन - प्रश्नस्योत्तरेण ज्ञानपरिपाकार्थं स्वीकृतसंन्यासा: स्वोपदेशेन
जनकादीना-मुत्पादित-ब्रह्मसाक्षात्काराः याज्ञवल्क्यादयः ब्रह्मविदः ।
तादृशानां विदां ज्ञानिनां ज्ञानप्रारब्धयोर्मध्ये प्रारब्धं बलवत्तरं, खलु
प्रसिद्धं । तस्य प्रारब्धकर्मण: भोगेन क्षय: नाश । सम्यज्ज्ञानमेव हुताशनः
अग्निः तेन प्राक्संचितानां कर्मणां ज्ञानानन्तरकालिकानां आगामिनां
विलय: क्रमेण विनाशाश्लेषौ । ब्रह्मात्मैक्यमवेक्ष्य साक्षात्कृत्य तन्मयतया
स्वार्थे मयट् ब्रह्मरूपतयेत्यर्थ: ये सर्वदा संस्थिताः तुर्यगां भूमिमारूढाः
 

 
"