This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
२३९
 
कदाचिदपि किंचिदपि भाविकर्मभिः आत्मानुभवोत्तरकालिकैः कर्मभिः
शरीरादी भवद्भिरपि न श्लिष्यते । तत्र अभिमानरूपसंगाभावात् कर्म-
धर्मितादात्म्याध्यासे कर्माध्यासरूप श्लेषः तस्य मूलाज्ञाननाशेन नष्टत्वात्
नानात्मधर्म-श्लेषः ॥ ४५०॥
 
उक्तमर्थं नभसि दृष्टान्ते उपपादयन् दान्तिके योजयति ।
 
न नभ इति ।
 
न नभो घटयोगेन सुरागन्धेन लिप्यते ।
तथात्मोपाधियोगेन तद्ध-नैव लिप्यते ॥ ४५१ ॥
 
जगद्व्याप्य वर्तमानं नभः घटावच्छिन्नतया परिच्छिन्नमिव
लक्ष्यमाणमपि निर्मलत्वात् अमूर्तत्वात् अवच्छेदकघटगत-सुराया गन्धेन
न लिप्यते । एवं आविदेहकैवल्यं अनुवर्तमानैरपि उपाधिभि: स्थूल-
सूक्ष्मशरीररूपं: योगेन मिथ्यासंबन्धेन तद्धमैः स्थूलसूक्ष्मशरीरधर्म: देवता-
वन्दन- तारजपादिध: नैव लिप्यते ॥४५१ ॥
 
इदानीं "भोगेन त्वितरे क्षपयित्वा संपद्यते " इति सूत्रार्थमाह ।
ज्ञानोदयादिति ।
 
ज्ञानोदयात्पुरारब्धं कर्म ज्ञानान्न नश्यति ।
 
अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥ ४५२ ॥
अहंब्रह्मास्मीति-साक्षात्कारोत्पत्तेः प्राक् आरब्धं फलदानाय प्रवृत्तं
कर्म स्वफलं सुखदुःखान्यतररूपं अदत्वा, लक्ष्यमुद्दिश्य उत्सृष्टबाणवत्, इदं
उत्तरश्लोके स्फुटीक्रियते, ज्ञानात् अकर्त्रात्म-साक्षात्कारात् न नश्यति
संचितवत् ॥४५२॥
 
लक्ष्यमुद्दिश्येत्यादिदृष्टान्तं स्फुटयति । व्याघ्रेति ।
 
व्याघ्रबुध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ ।
 
न तिष्ठति च्छिनत्येव लक्ष्यं वेगेन निर्भरम् ॥ ४५३॥
 
'दुष्टोयं व्याघ्रो हन्तव्यः" इतिबुध्या विनिर्मुक्तः आकर्णान्तमाकृष्य
त्यक्त: बाणः पश्चात् बाणत्यागानन्तरं तु गोमतौ पुरोव्यक्तिः गौरिति
 
(6