This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
पूर्वोक्तश्रुति-सूत्रयोः मन्दशंका समाधानार्थत्वं विवक्षुः आदौ

तदधिगम उत्तरपूर्वाधयोरश्लेष-विनाशौ इतिसूत्रानुरोधेन ( तदधिगमे

ब्रह्माधिगमे उत्तराघस्य अश्लेषः पूर्वाघस्य विनाश: इति सूत्रार्थः) क्षीयन्ते

चास्य कर्माणि इतिश्रुत्या च प्रारब्धव्यतिरिक्त -कर्माणि गृह्यन्ते इति

भावेन ब्रह्मसाक्षात्कारस्य संचितकर्मनाशकत्वमाह । अहमिति ।
 
२३८
 

 
अहं ब्रह्मेतिविज्ञानात् कल्पकोटिशतार्जितम् ।
 

संचितं विलयं याति प्रबोधात् स्वप्नकर्मवत् ॥४४८॥
 

 
संचितं अनारब्धफलकं पूर्व कर्म कल्पकोटिशतार्जितं अकर्तृ-ब्रह्माभेद-

साक्षात्कारात् प्रबोधात् जागरात् स्वप्नकर्मवत् विलयं विनाशं याति

प्राप्नोति ॥४४८॥
 

 
दृष्टान्तमुपपादयति । यत्कृतमिति ।
 

 
यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् ।

सुप्तोत्थितस्य किं तत्स्यात् स्वर्गाय नरकाय वा ॥४४९॥
 

 
स्पष्टोर्थः । एवं अविद्यानिद्राकालकर्मभिः आत्मैकत्व-दर्शन-

प्रबोधवतः नष्टाविद्यत्वेन च औपाधिकेनापि कर्तृत्वेन शून्यस्य न फल-

मारभ्यत इति भावः ॥४४९ ॥
 

 
संचितकर्मणां अनात्माध्यासनाशेन नाशमुक्त्वा आगामिनां कर्मणां

अश्लेषमाह । स्वमिति । पूर्वं कर्माश्रयानात्माध्यासात् कर्तृत्वज्ञानं

स्वस्मिन्नासीत् । कर्तृत्वज्ञानकाले कृतान्यपि कर्माणि कर्तृत्वज्ञाननाशा-

न्
नष्टानि इदानीं तु अकर्तृ-ब्रह्मात्मत्वबोधे आगामिकर्म-संबन्ध एव नास्तीति

तदश्लेष इत्युच्यते
 

 
स्वमसंगमुदासीनं परिज्ञाय नभो यथा ।
 

न श्लिष्यते यतिः किंचित्कदाचिद् भाविकर्मभिः ॥४५०॥
 

 
स्वं स्वात्मानं असंगं एक उदासीनं अकर्तारं परिज्ञाय सम्यगनुभूय ।

यथा नभः गगनं जलानलानिलादिभिःन श्लिष्यते तथा आत्मविद्यतिः