This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
वा
बाह्यवासनस्य मनसः सगुणात्प्रच्यावनमात्रस्य निर्गुणे स्थापयितु-

मपेक्षितत्वात् इति ॥२७॥
 

 
एतादृश-साधनगण-मण्डितस्यैव मुमुक्षुत्वं सम्भवति नान्यस्येती-

दानीं मुमुक्षुत्वमाह अहंकारादीति ।
 
२०
 

 
अहंकारादिदेहान्तान् बन्धानज्ञान-कल्पितान् ।

स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥२८॥
 
"]
 
पेत-मन्तः
 

 
"अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्माणि । अहमित्यभिमानेन

तिष्ठत्याभास-तेजसा । अहंकारः स विज्ञेयः" इत्युक्त्या चित्प्रतिफलनो-
पेत-मन्तः
तःकरणं अहंकारः । यद्वा भोक्ता जीवोहंकारः आनन्दमयकोश-

नामा, स्वात्मनिरूपणे " सुप्तिगतै स्सुखलेशःशैः अभिमनुते सुखीभवामीति ।

आनन्दकोशनामा सोहंकारः कथं भवेदात्मा" इत्युक्तत्वात् । तस्या-

प्यज्ञानकल्पितत्वं मनोरूपोपाधिवशाद्विकारत्वं च गौणं वक्तुं शक्यम् ।

तथाच आनन्दकोश-प्रभृतिविज्ञानमय-मनोमय-प्राणमयान्नमयान्तान् बन्धान्

स्वरूपसाक्षात्कारात्प्रगात्मत्वेन मन्यमानान् स्वस्वरूपावबोधेन मोक्तुं

पुनस्तत्र यथाऽहन्ता न स्यात् तथा त्यक्तुं वाबाधितुमित्यर्थः । या इच्छा

सा मुमुक्षुता । स्वस्वरूपावबोधे हि "यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन

कं पश्येत्" इति श्रुत्या स्वव्यतिरिक्तस्य कस्यापि भानाभावेन कोश-

पंचकात्मक-बन्धनिवृत्तिरत्यन्तमिति भावः ॥२८॥
 

 
इयं तावत् मुमुक्षुता त्रिविधा मन्दा मध्यमा प्रवृद्धा चेति ।

मोक्षस्य नित्यसुखरूपत्वेपि सांसारिक-वासना-वासितांतः करणानां

मोक्षेच्छेछैव दुर्लभा । अध्यात्मशास्त्र - -श्रवणकाले जातासा न कार्यमादधाति ।

यदा पुरुषः श्रवणानन्तर- जातविवेकेन विषयेषु सांसारिकेषु दोषान् दर्
शं
दर्शं तत्र वैराग्यं लब्ध्वा विधिवत्संन्यस्य सर्वकर्माणि, विचारार्थं गुरूप-

सदनादौ प्रवर्तते तदा, अध्यात्मशास्त्रश्रवणकाले जाता तात्कालिक्येव

मुमुक्षुता मन्देति नामार्हैव मध्यमत्वं प्राप्नोति । यथा यथा तीव्रं वैराग्यं

मनश्चोपशान्तं समाधित्सति गुरुश्चास्मिन्प्रसीदति "क्षिप्रमयं तरतु

भवाब्धिमिति " तदा पुरुष: नित्यसुखरूप - मोक्षादन्यन्न कामयते तत्र विलं
बं
च न सहत इति प्रवृद्ध-मुमुक्ष: मुख्याधिकारी भूत्वा क्षिप्रं लभते

फलमित्याह। मन्देति ।