This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते ।

ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥४४६॥
 
२३७
 

 

 
विपरीतभावनानिवृत्यर्थं निदिध्यासने शीलं निदिध्यासनं वा यस्य

तस्य बाह्यप्रत्यय ईक्ष्यते संततमात्मनि बुद्धेः स्थापनार्थं प्रयत्नस्य सत्वात्।

एतस्य ध्यातुः फलदर्शनात् सुखदुःखानुभवदर्शनात् श्रुतिः प्रारब्धं ब्रवीति

कर्तृत्वस्य दुःखरूपत्वात् देहादिभानस्यापि ध्यानविरमे संभवात् पूर्व-

कर्मायत्तं सुखंदुःखं वा भासेत निदिध्यासनस्य सविकल्पकसमाधि-

रूपत्वात् । तदुक्तं " श्रुतेः शतगुणं विद्यात् मननं मननादपि । निदिध्यासं

लक्षगुणं अनन्तं निर्विकल्पकम् । " "निर्विकल्पक-समाधिना स्फुटं

ब्रह्मतत्वमवगम्यते ध्रुवं । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं

भवेत् " इति । तदुक्तं बाह्यत्यय ईक्ष्यत इति । यदा बाह्यप्रत्ययः तदा

प्रारब्धायत्तं सुखं वा दुःखं वा भवतीति न ह वै सशरीरस्य प्रियाप्रिययो-

रपतिरस्ति" इतिश्रुतिरुपपद्यते । तदा ब्रह्मसाक्षात्कारस्य अजातत्वात्

अध्यासबाधाभावात् शरीरात्मनोः आध्यासिकसंबन्धस्य सत्वात् सशरीरत्वं ।

तथाच "तस्य तावदेव चिरं" इत्यादिश्रुतिः भोगेनेत्यादि-सूत्रं च

तदभिप्रायं प्रारब्धादेः अनात्मधर्मत्वात् निर्गुणब्रह्मविदः तदसंभवात्

॥४४६॥
 
"
 
""
 

 
श्लोकोक्तमुपपादयति । सुखादीति ।
 

 
सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते ।
 

फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् ॥ ४४७॥
 

 
आदिपदेन दुःखपरिग्रहः । यावत्कालं सुखाद्यनुभवः तावत्कालं

प्रारब्धमिष्यते । तत्र हेतुमाह, हि यस्मात् फलोदयः फलस्य सुखस्य दुःखस्य

वा उदयः उद्भवः क्रियापूर्वः क्रिया पूर्वा यस्य सः कर्मजन्य इत्यर्थः ।

कुत्रचिदपि न निष्क्रियः क्रियां कर्म विना न संभवति निनिमित्तकार्या-

भावात् । सुखदुःखयोः सदसत्कर्मैक-निमित्तकत्वात् अनात्मतादात्म्याध्यासं

विना अनात्माश्रित-कर्मफलसंबन्धाभावात् । तथाच बाह्यप्रत्ययवतः ध्यान-

शीलस्य कर्मायत्तः भोगः संभवतीत्युपपादितं ॥ ४४७॥