2023-02-20 14:43:11 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
तस्य तावदेव चिरं यावन्नविमोक्ष्ये अथ संपत्स्ये" इतिश्रुत्या
भोगेन त्वितरे क्षपयित्वा संपद्यते " इतिसूत्रेण च ज्ञानिनामपि प्रारब्ध-
कर्मायत्तः भोगः स्वीकर्तव्यो भवति । तथाच सुखदुःखानुभवरूपत्वात्
भोगस्य, कथं निर्विकारत्वं इति शंकायां प्राह । विज्ञातेति ।
२३६
44
विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः ।
अस्ति चेन्नस विज्ञातब्रह्मभावो बहिर्मुखः ॥४४३ ॥
विज्ञातमनुभूतं ब्रह्मतत्वं येन सः विज्ञातब्रह्मतत्वः तस्य मिथ्याज्ञान-
नाशेन तत्कृताभिमानाभावात् यथापूर्वं अनुभवात्प्रागिव न संसृतिः सुख-
दुःखानुभवः स्पृहोद्वेगशून्यत्वात् तदुक्तं गीतासु " दुःखेष्वनुद्विग्नमनाः
सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते " इति ।
इतरेषां नैवंविधत्वं, दुःखेषु उद्विजन्ते सुखेभ्यः स्पृहयन्ति च रक्ताः भीताः
कोपिनश्च । तदाह्, अस्ति चेत् उद्वेगस्पृहादिकं न स विज्ञातब्रह्मभावः
बहिर्मुखः कोशेष्वात्माभिमानवान् ॥४४३॥
प्राचीनवासनावेगादसौ संसरतीति चेत् ।
न सदेकत्वविज्ञानान्मन्दीभवति वासना ॥४४४॥
ब्रह्मानुभवात्प्राक्कालिकी अनादिभवसंचिता या वासना तस्याः
वेगात् असौ ब्रह्मवित् संसरति वन्धं भजत इति चेत् न, सदेकत्वविज्ञानात्
अद्वितीयाखण्ड-स्वप्रकाशानन्द- ब्रह्माभेद-साक्षात्कारात् वासना अल्पजड-
दुःखात्मकत्वेन निश्चितानात्म-स्वात्मत्वभ्रमजनितवासना मन्दीभवति
तनूभवति शिथिला भवतीत्यर्थः अरुणोदयकालिकं तम इव ॥ ४४४॥
तत्र दृष्टान्तमाह । अत्यन्तेति ।
अत्यन्तकामुकस्यापि शक्तिः कुण्ठति मातरि ।
तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥४४५॥
पूर्णानन्दे अखण्डानन्दरूपे ब्रह्मणि साक्षात्कृते मनीषिणः विवेकिनः
इत्यर्थः । जगति वृत्तिः कुण्ठति । वक्ष्यति हि "चन्द्रे महाह्लादिनि
दीप्यमाने चित्रेन्दुमालोकयतुं क इच्छेत् " इति ॥४४५ ॥