2023-03-03 08:08:37 by Vasant
This page has been fully proofread once and needs a second look.
२३५
विजानाति शास्त्रस्य प्रयोजनव-
प्रामाण्यात् । लोकाज्ञानसिद्धः निष्प्रयोजन: उपादानेन अज्ञानेन सह
निवृत्त: भेदः कथं अखण्डाकारवृत्तौ विषयभावं प्राप्तुमर्हः स्यात् ।
"प्रतीतिर्जीव-जगतोः स्वप्नवद्भाति यावता । तावन्निरंतरं विद्वन्
स्वाध्यासापनयं कुरु" इत्युपदेशप्रकारेण अपनीतसकल भ्रमस्य न कदापि
भेदज्ञानं भवतीति एवंलक्षण - संपन्नः यः सः जीवन्मुक्त इष्यते ॥४४०॥
"(
साधुभिः पूज्यमानेस्मिन् पीड्यमानेपि दुर्जनैः ।
समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥४४१॥
अस्मिन् शरीरे साधुभिः पूज्यमाने दुर्जनैः पीड्यमानेपि यस्य समभावः
समत्वं हर्षामर्षादिशून्यत्वं स जीवन्मुक्त इष्यते ॥ ४४१ ॥
किं बहुना
यत्र प्रविष्टा विषया: परेरिताः
नदीप्रवाहा इव वारिराशौ ।
लिनन्ति सन्मात्रतया न विक्रियां
उत्पादयन्त्येष यतिविमुक्तः ॥ ४४२ ॥
परेरिताः परैः अन्यैः ईरिता: अनेन स्वतः विषयोन्मुखत्वं नैवास्ती-
क्षितब्रह्मणः पुंसः इत्युक्तम् । परेरिताः परकृत-स्तुतिनिन्दादयोपि परदृष्ट्या
साध्वसाधु-शब्दाद्यात्मकाः विषयाः यत्र प्रविष्टाः यमुद्दिश्य कृताः वारिराशौ
प्रविष्टा नदीप्रवाहा इव लिनन्ति लीयन्ते न विक्रियामुत्पादयन्ति हर्षं
वा अमर्
निश्चित्य स्थितवतः शरीराद्याश्रित-स्तुतिनिन्दादिना किं भवति । निर्गुणे
निर्दोषे च ब्रह्मणि स्थितवतां सकलविध
सर्वं आकाशहननार्
यत्र प्रविष्टाः विक्रियां नोत्पादयन्ति एष यतिः विमुक्तः क्षीणवासनत्वात्
नष्टमनस्त्वाच्च ॥ ४४२ ॥
1