This page has not been fully proofread.

श्री विवेकचूडामणिः सव्याख्यः
 
२३५
 
सकलशास्त्र-संस्कार-संस्कृतमन:परिणामरूपया चिन्मात्रया प्रज्ञया भेदं न
विजानाति शास्त्रस्य प्रयोजनव- दनधिगताबाधितार्थ - बोधकत्वेनैव
प्रामाण्यात् । लोकाज्ञानसिद्धः निष्प्रयोजन: उपादानेन अज्ञानेन सह
निवृत्त: भेदः कथं अखण्डाकारवृत्तौ विषयभावं प्राप्तुमर्हः स्यात् ।
प्रतीतिर्जीव-जगतोः स्वप्नवद्भाति यावता । तावन्निरंतरं विद्वन्
स्वाध्यासापनयं कुरु" इत्युपदेशप्रकारेण अपनीतसकल भ्रमस्य न कदापि
भेदज्ञानं भवतीति एवंलक्षण - संपन्नः यः सः जीवन्मुक्त इष्यते ॥४४०॥
 
"(
 
साधुभिः पूज्यमानेस्मिन् पीड्यमानेपि दुर्जनैः ।
समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥४४१॥
 
अस्मिन् शरीरे साधुभिः पूज्यमाने दुर्जनैः पीड्यमानेपि यस्य समभावः
समत्वं हर्षामर्षादिशून्यत्वं स जीवन्मुक्त इष्यते ॥ ४४१ ॥
 
किंबहुना
 
यत्र प्रविष्टा विषया: परेरिताः
 
नदीप्रवाहा इव वारिराशौ ।
 
लिनन्ति सन्मात्रतया न विक्रियां
 
उत्पादयन्त्येष यतिविमुक्तः ॥ ४४२ ॥
 
परेरिताः परैः अन्यैः ईरिता: अनेन स्वतः विषयोन्मुखत्वं नैवास्ती-
क्षितब्रह्मणः पुंसः इत्युक्तम् । परेरिताः परकृत-स्तुतिनिन्दादयोपि परदृष्ट्या
साध्वसाधु-शब्दाद्यात्मकाः विषयाः यत्र प्रविष्टाः यमुद्दिश्य कृताः वारिराशौ
प्रविष्टा नदीप्रवाहा इव लिनन्ति लीयन्ते न विक्रियामुत्पादयन्ति हर्षं
वा अमर्ष वा दैन्यं वा । तत्र हेतुः सन्मात्रयेति अखण्डब्रह्मैवाहमिति
निश्चित्य स्थितवतः शरीराद्याश्रित-स्तुतिनिन्दादिना किं भवति । निर्गुणे
निर्दोषे च ब्रह्मणि स्थितवतां सकलविध विकारशून्यत्वं । तत्र परकृतं
सर्वं आकाशहननार्थ - खड्गाद्यायुध-प्रयुक्तिवद् व्यर्थमिति भावः । एष यतिः,
यत्र प्रविष्टाः विक्रियां नोत्पादयन्ति एष यतिः विमुक्तः क्षीणवासनत्वात्
नष्टमनस्त्वाच्च ॥ ४४२ ॥
 
1