2023-02-20 14:43:11 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् ।
भवबन्ध - विनिर्मुक्तः स जीवन्मुक्त इष्यते ॥ ४३८॥
श्रुतेर्बलात् तत्त्वमसीत्यादि-वेदवाक्यमहिम्ना आत्मनः स्वस्य ब्रह्मा-
भावः ब्रह्मत्वं यस्य विज्ञातः साक्षादकारि । भवबन्धविनिर्मुक्तः सकल-
विधभ्रान्तिशून्य: मूलाज्ञाननाशात् स जीवन्मुक्त इष्यते ॥ ४३८ ॥
भवबन्ध - विनिर्मुक्तत्वं स्फुटमाह । देहेति ।
२३४
देहेन्द्रियेष्वहंभावः इदंभावस्तदन्यके ।
यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥४३९॥
देहे इन्द्रियेषु च अहंभावः, तदन्यके तदन्यस्मिन् घटादौ इदंभावः
यस्य क्वापि कस्मिन्नपि काले न भवतः स जीवन्मुक्त इष्यते । अनात्मत्वस्य
समत्वात् देहेन्द्रियाणां घटादेश्च, स्वस्मिन्कल्पितत्वस्य च समत्वात् ।
केवलपूर्ववासना-मूलकः अहमिदंभावः निर्वासनबोधवतः जीवन्मुक्तस्य न
संभवतीति भावः ॥ ४३९ ॥
जीवेशोभय-संसाररूप-दुर्वासनोज्झिता ।
सा सर्वदा भवेद्यस्य स जीवन्मुक्त उच्यते ॥
नप्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः ।
प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥४४०॥
विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनि ब्रह्मणो भेदं
असन्तं कः करिष्यति" इतिप्रमाणात् प्रत्यग्ब्रह्मणोः, जीवब्रह्मणोः सृज्यत
इतिसर्गः जगत् "ब्रह्मैवेदं विश्वं " इत्यादिश्रुत्या रज्जुसर्पवद् ब्रह्मणि
कल्पितस्य अधिष्ठानभेदाभावात् । "यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन
कं पश्येत्" इत्यादिश्रुत्या " यत्र नान्यत्पश्यति " इत्यादिश्रुत्या च " यदा
ह्येवैष एतस्मिन्नदर-मन्तरं कुरुते, अथ तस्य भयं भवति" इति श्रुत्याच
अभयब्रह्मप्रतिष्ठस्य तस्य किंचिदपि भेदज्ञानं नास्तीति भावः । तथा च
भेदस्याभावादेव तस्य ज्ञानाभावः, शशविषाणवत् त्रैकालिकनिषेध-प्रति-
योगित्वात्। वस्तुसतः अज्ञाने किंचिज्ज्ञत्वं नत्वसतः । न हि सर्वज्ञानां
योगिनां शशविषाणाद्यज्ञानाद - सर्वज्ञत्वं कश्चिदुपैति । तस्मान्निविकल्पया
1