This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
२३३
 
अतीतस्य अननुसंधानं अस्मरणं, भविष्यतः आगामिनः अविचारणं
अचिन्तनं, प्राप्तेपि वर्तमान इत्यर्थ: औदासीन्यं संगशून्यत्वं जीवन्मुक्तस्य
लक्षणम् ॥४३३॥
 
गुणदोषविशिष्टेस्मिन् स्वभावेन विलक्षणे ।
 
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३४॥
 
(6
 
गुणदोषविशिष्टे अत एव स्वभावेन विलक्षणे अस्मिन् जगति सर्वत्र
समदर्शित्वं न निषेति दोषधिया गुणबुध्या वा न किंचिदादत्ते ।
आविद्यक-मखिलमिति ज्ञात्वोदास्ते यतिः कोपि
 
"
 
इत्यात्मविद्या-
विलासोक्तरीत्या हानोपादानरहितत्वं । यद्वा समं ब्रह्म " निर्दोषं हि समं
ब्रह्म " इतिस्मृतेः सर्वत्र ब्रह्मदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥४३४॥
 
इष्टानिष्टार्थ-संप्राप्तौ समदशितयाऽऽत्मनि ।
उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥४३५ ॥
 
इष्टस्य वा अनिष्टस्य वा अर्थस्य संप्राप्तौ समदर्शितया इदमिष्टं
इदमनिष्टं इतिबुध्यभावात् आत्मनि उभयत्राविकारित्वं हर्षोद्वेगशून्यत्वं
जीवन्मुक्तस्य लक्षणम् लोकदृष्ट्या इष्टानिष्टेति-कथनं ॥४३५ ॥
 
ब्रह्मानन्दरसास्वादा-सक्तचित्ततया यतेः ।
अन्तर्बहि-रविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ ४३६॥
ब्रह्मेति । स्पष्टम् ॥ ४३६॥
 
देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः ।
औदासीन्येन यस्तिष्ठेत् स जीवन्मुक्त इष्यते ॥ ४३७ ॥
 
देहेन्द्रियादौ आदिपदेन प्राणमनोबुध्यहंकार-परिग्रहः । कर्तव्ये कर्मणि
च ममेदं कर्तव्यं मयेदं कृतमिति वा ममभाववर्जितः । देहेन्द्रियादौ
अहं मनुष्यः अहं पश्यामि, मम देहः, मम चक्षुरित्याद्यध्यासवर्जितः ।
य औदासीन्येन आध्यासिकतादाम्यशून्यतया असंगतया तिष्ठेत् स जीवन्मुक्त
इष्यते ॥४३७॥
 
F