This page has been fully proofread once and needs a second look.

२३२
 
श्रीविवेकचूडामणिः सव्याख्यः
 
यस्य बोधः पदार्थानां बोधोपि निर्वासनः सक्तिरहित इत्यर्थः ।

"यदृच्छोपनतेष्वक्षि-दिग्द्रव्येषु यथा पुनः । नीरागमेव पतति तद्वद् भोग्येषु

धीरधी: " इति वासिष्ठोक्तेः हेयोपादेयबुद्धिरहित इति भावः । यद्वा

लीनधीरपि जागर्ति, चक्षुरादीन्द्रियाणां स्वस्वगोलकेष्ववस्थानेन उपरत्य-

भावज्जगर्ति । इन्द्रियसत्वेपि मनसः ब्रह्मणि लीनत्वात् नेन्द्रियैरर्थानुपलभते

यतः ततः जाग्रद्धर्मवर्जितः । कदाचिदुपलब्धावपि दृढतमविवेकप्रकर्षात्

रागद्वेषादिशून्यत्वं निर्वासनबोधत्वं । तेन निर्विकारत्वं सूत्रश्लोकस्थं

विवृतं ॥४३०॥
 

 
द्वादशभिः श्लोकैः निर्विकारत्वं मुख्यतया उपपादयति, तस्मिन्सति

प्रज्ञाप्रतिष्ठायाः तस्यां च सदानन्दस्य अयत्नसिद्धत्वात् ।
 

 
शान्तसंसारकलनः कलावानपि निष्कलः ।
 

यस्सचित्तोपि निश्चित्तः स जीवन्मुक्त इष्यते ॥४३१॥
 

 
शान्ता संसारकलना यस्य सः शान्तसंसार - -कलन:, इदं विशेषणं

निश्चित्तत्वे हेतुः । कलावानपि सकलविद्याविदपि निष्कल: ब्रह्मवृत्ति -

व्यतिरिक्तवृत्तिशून्यत्वात् । यद्वा आमोक्षं प्राणश्रद्धादि -षोडशकला-

विशिष्टोपि तत्राभिमानरूप-संगाभावात् परकीयप्राणादिभिरिव कलासंसर्ग-

शून्य इत्यर्थः । यस्सचित्तोपि स्वात्मना परिणत - चित्तविशिष्टोपि निश्चित्तः

बहिर्वृत्तिशून्यत्वात् मुग्धादिवत् रागादिशून्यत्वाद्वा । स जीवन्मुक्त

इष्यते ॥४३१॥
 

 
वर्तमानेपि देहेस्मिमिंश्छायावदनुवतिनि ।
 
र्तिनि ।
अहंताममताभावो जीवन्मुक्तस्य लक्षणम् ॥ ४३२ ॥
 

 
छायावदनुवर्तिनि अस्मिमिंस्थूलदेहे वर्तमानेपि अहंताममतयोरभावः

परकीयशरीर इव जीवन्मुक्तस्य लक्षणं । एतेन सर्वेषां विकाराणां राग-

द्वेषादीनां जरामरणादीनां वा स्थूलदेहाभिमानमूलकत्वात् मूलाभावे

निर्विकारत्वं स्पष्टमुपपादितम् ॥४३२ ॥
 

 
अतीताननु-संधानं भविष्यदविचारणं ।

औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥ ४३३॥