2023-02-20 14:43:11 by ambuda-bot
This page has not been fully proofread.
२३२
श्रीविवेकचूडामणिः सव्याख्यः
यस्य बोधः पदार्थानां बोधोपि निर्वासनः सक्तिरहित इत्यर्थः ।
"यदृच्छोपनतेष्वक्षि-दिग्द्रव्येषु यथा पुनः । नीरागमेव पतति तद्वद् भोग्येषु
धीरधी: " इति वासिष्ठोक्तेः हेयोपादेयबुद्धिरहित इति भावः । यद्वा
लीनधीरपि जागति, चक्षुरादीन्द्रियाणां स्वस्वगोलकेष्ववस्थानेन उपरत्य-
भावज्जगति । इन्द्रियसत्वेपि मनसः ब्रह्मणि लीनत्वात् नेन्द्रियैरर्थानुपलभते
यतः ततः जाग्रद्धर्मवर्जितः । कदाचिदुपलब्धावपि दृढतमविवेकप्रकर्षात्
रागद्वेषादिशून्यत्वं निर्वासनबोधत्वं । तेन निर्विकारत्वं सूत्रश्लोकस्थं
विवृतं ॥४३०॥
द्वादशभिः श्लोकैः निर्विकारत्वं मुख्यतया उपपादयति, तस्मिन्सति
प्रज्ञाप्रतिष्ठायाः तस्यां च सदानन्दस्य अयत्नसिद्धत्वात् ।
शान्तसंसारकलनः कलावानपि निष्कलः ।
यस्सचित्तोपि निश्चित्तः स जीवन्मुक्त इष्यते ॥४३१॥
शान्ता संसारकलना यस्य सः शान्तसंसार - कलन:, इदं विशेषणं
निश्चित्तत्वे हेतुः । कलावानपि सकलविद्याविदपि निष्कल: ब्रह्मवृत्ति -
व्यतिरिक्तवृत्तिशून्यत्वात् । यद्वा आमोक्षं प्राणश्रद्धादि षोडशकला-
विशिष्टोपि तत्राभिमानरूप-संगाभावात् परकीयप्राणादिभिरिव कलासंसर्ग-
शून्य इत्यर्थः । यस्सचित्तोपि स्वात्मना परिणत - चित्तविशिष्टोपि निश्चित्तः
बहिर्वृत्तिशून्यत्वात् मुग्धादिवत् रागादिशून्यत्वाद्वा । स जीवन्मुक्त
इष्यते ॥४३१॥
वर्तमानेपि देहेस्मिश्छायावदनुवतिनि ।
अहंताममताभावो जीवन्मुक्तस्य लक्षणम् ॥ ४३२ ॥
छायावदनुवर्तिनि अस्मिस्थूलदेहे वर्तमानेपि अहंताममतयोरभावः
परकीयशरीर इव जीवन्मुक्तस्य लक्षणं । एतेन सर्वेषां विकाराणां राग-
द्वेषादीनां जरामरणादीनां वा स्थूलदेहाभिमानमूलकत्वात् मूलाभावे
निर्विकारत्वं स्पष्टमुपपादितम् ॥४३२ ॥
अतीताननुसंधानं भविष्यदविचारणं ।
औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥ ४३३॥