This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
२३१
 
स्थिता सततं वर्तमाना प्रज्ञा यस्य सः स्थितप्रज्ञ इति विग्रहः ।

तत्र प्रज्ञाशब्दार्थमाह शोधितयोः महावाक्यार्थंकथनावसरे दर्शितदिशा

तत्त्वंपदलक्ष्ययोः उपाधिविनिर्मुक्तयोः, ब्रह्मात्मनोः परमात्मप्रत्यगात्मनोः,

एकभावावगाहिनी ऐक्यविषयिणी निर्विकल्पा संसर्गादिमिथ्यापदार्था-

विषयिणी चिन्मात्रा अखण्डचिदाकारा वृत्तिः श्रवण-मनन - निदिध्यासन-

संस्कृतमनःपरिणामः प्रज्ञा इति कथ्यते । स्थिताशब्दार्थमाह " सा सर्वदा

भवेद्यस्येति , " सजीवन्मुक्त इष्यते अतस्मिमिंस्तद्द्बुद्धेरेव बन्धत्वात् सर्वदा

अखण्डाकारवृत्तौ सत्यां बन्धप्रसक्तेरभावात् ॥४२८ ॥
 

 
यस्य स्थिता भवेत् प्रज्ञा यस्यानन्दो निरन्तरः ।

प्रपंचो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥ ४२९॥
 

 
सूत्रश्लोकस्थस्य यस्सदानन्दमश्नुते ब्रह्मण्येव विलीनात्मा इत्यस्य

विवृतिः । अत्र सर्वं तस्य स्वरूपं अतः विशेषणानां व्यावर्तकत्वशंका

नकार्या । यद्वा यस्य स्थिता भवेत्प्रज्ञा स जीवन्मुक्त:, एवं यस्यानन्दो

निरन्तरः स जीवन्मुक्तः, यस्य प्रपंच: विस्मृतप्राय: स जीवन्मुक्त: इति

योजना । " उपदेश्क्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः" इतिस्मृत्या शिष्य-

बोधनार्थं शिष्यादृष्टेन व्युत्थानदशायां तदुपयोगि-प्रमाणवाक्यादिरूप-प्रपंचः

स्मर्यते नान्यत् किंचिदिति विस्मृतप्राय इति प्रायःपदम् ॥४२९॥
 

 
सुषुप्ते: भेदमाह । लीनधीरिति ।
 

 
लीनधीरपि जागर्ति यो जाग्रद्धर्मवर्जितः ।

बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥ ४३०॥
 
"
 

 
सुषुप्तौ मनसः अज्ञाने लयः, इदानीनीं ब्रह्मणि चिन्मात्रे, ततः तमः-

प्रसक्तेरेवाभावात् लीनधीरपि जागर्ति नष्टाविद्यानिद्र इत्यर्थः ।

अनावृतात्म-संबद्ध-सकलपदार्थत्वात् स्वाव्यतिरेकेण सर्वमुपलभत इति वा ।

"इन्द्रियैरर्थोपलब्धिर्जागरितमिति " लक्षणं सुयोजं । जागरेपि न पूर्ववत्

स्थूलदेहाद्यभिमान इत्याह, यो जाग्रद्धर्म वर्जितः, "रागद्वेषवियुक्तैस्तु

विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा स शान्तिमधिगच्छति

इतिस्मृतिरीत्या अध्यासकाल एव शान्त्यर्थमेव प्रयत्नस्य कृतत्वात् ।
 
"
 
"