2023-02-20 14:43:11 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
२३१
स्थिता सततं वर्तमाना प्रज्ञा यस्य सः स्थितप्रज्ञ इति विग्रहः ।
तत्र प्रज्ञाशब्दार्थमाह शोधितयोः महावाक्यार्थंकथनावसरे दर्शितदिशा
तत्त्वंपदलक्ष्ययोः उपाधिविनिर्मुक्तयोः ब्रह्मात्मनोः परमात्मप्रत्यगात्मनोः,
एकभावावगाहिनी ऐक्यविषयिणी निर्विकल्पा संसर्गादिमिथ्यापदार्था-
विषयिणी चिन्मात्रा अखण्डचिदाकारा वृत्तिः श्रवण-मनन - निदिध्यासन-
संस्कृतमनःपरिणामः प्रज्ञा इति कथ्यते । स्थिताशब्दार्थमाह " सा सर्वदा
भवेद्यस्येति , " सजीवन्मुक्त इष्यते अतस्मिस्तद्द्बुद्धेरेव बन्धत्वात् सर्वदा
अखण्डाकारवृत्तौ सत्यां बन्धप्रसक्तेरभावात् ॥४२८ ॥
यस्य स्थिता भवेत् प्रज्ञा यस्यानन्दो निरन्तरः ।
प्रपंचो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥ ४२९॥
सूत्रश्लोकस्थस्य यस्सदानन्दमश्नुते ब्रह्मण्येव विलीनात्मा इत्यस्य
विवृतिः । अत्र सर्वं तस्य स्वरूपं अतः विशेषणानां व्यावर्तकत्वशंका
नकार्या । यद्वा यस्य स्थिता भवेत्प्रज्ञा स जीवन्मुक्त:, एवं यस्यानन्दो
निरन्तरः स जीवन्मुक्तः, यस्य प्रपंच: विस्मृतप्राय: स जीवन्मुक्त: इति
योजना । " उपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः" इतिस्मृत्या शिष्य-
बोधनार्थं शिष्यादृष्टेन व्युत्थानदशायां तदुपयोगि-प्रमाणवाक्यादिरूप-प्रपंचः
स्मर्यते नान्यत् किंचिदिति विस्मृतप्राय इति प्रायःपदम् ॥४२९॥
सुषुप्ते: भेदमाह । लीनधीरिति ।
लीनधीरपि जागति यो जाग्रद्धर्मवर्जितः ।
बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥ ४३०॥
"
सुषुप्तौ मनसः अज्ञाने लयः, इदानी ब्रह्मणि चिन्मात्रे, ततः तमः-
प्रसक्तेरेवाभावात् लीनधीरपि जागति नष्टाविद्यानिद्र इत्यर्थः ।
अनावृतात्म-संबद्ध-सकलपदार्थत्वात् स्वाव्यतिरेकेण सर्वमुपलभत इति वा ।
"इन्द्रियैरर्थोपलब्धिर्जागरितमिति " लक्षणं सुयोजं । जागरेपि न पूर्ववत्
स्थूलदेहाद्यभिमान इत्याह, यो जाग्रद्धर्म वर्जितः, "रागद्वेषवियुक्तैस्तु
विषयानिन्द्रियैश्चरन् । आत्मवश्यैविधेयात्मा स शान्तिमधिगच्छति
इतिस्मृतिरीत्या अध्यासकाल एव शान्त्यर्थमेव प्रयत्नस्य कृतत्वात् ।