2023-02-20 14:43:10 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
यद्वा कोशेष्वहंभावस्य उदयाभावः इत्यर्थः । लीनवृत्तेरनुत्पत्तिः मर्यादोपरतेस्तु
सा, आनन्दात्मना लीना या मनोवृत्तिः तस्या अनुत्पत्तिः यथा आज्यं पुनः
क्षीरं न भवति तथा स्वतः अनुपम : आनन्दः अतः परमा तृप्तिः ततः सर्वतो
निवृत्तिः इति हेतुहेतुमद्भावः ॥ ४२५ ॥
इदानीं निरुपममानन्दं ज्ञानिनो दर्शयति । ब्रह्माकारतयेत्यादिना ।
ब्रह्माकारतया सदा स्थिततया निर्मुक्त बाह्यार्थंधीः
अन्यावेदित-भोग्यभोगकलनो निद्रालुवद् बालवत् ।
स्वप्नालोकित - लोकवज्जगदिदं पश्यन्क्वचिल्लब्धधीः
आस्ते कश्चिदनन्त - पुण्यफलभुग्धन्यः स मान्यो भुवि ॥४२६॥
२२९
46
धियः निर्मुक्तबाह्यार्थत्वे हेतुः ब्रह्माकारतया सदा स्थिततयेति ।
सदा प्रत्ययान्तरशून्यत्वेन अच्छिन्नतया ब्रह्माकारतया परमपुरुषार्थ-
भूताखण्ड - सच्चिदानन्द - परमात्माकारतया स्थिततया निर्मुक्ता: नितरां
सवासनमित्यर्थ: मुक्ताः नष्टाः बाह्यार्थाः यस्यां सा नतु ययेति स्वयमेव
निवृत्तत्वात् विषयाणां प्रयत्नस्य अनपेक्षितत्वात् रसोप्यस्य परं
दृष्ट्वा निवर्तते " इति ब्रह्मदर्शने विषयनिवर्तनार्थं प्रयत्नानपेक्षितत्वस्य
प्रतीयमानत्वात् । तथाच निर्मुक्ता बाह्यार्थधीः यस्य सः निर्मुक्त-
बाह्यार्थी । कश्चिदित्यस्य विशेषणं अन्यावेदित-भोग्यभोगकलनः अन्यैः
आवेदितं यद्भोग्यं शरीरस्थितिनिमित्तं अन्नपानादिकं तेन भोगस्य
कलना संपत्ति: घटना यस्य सः । आस्यप्राप्तान्नभुगित्यर्थः । यथा निद्रालु-
रन्यै: भोजितं भुनक्ति बालश्च मात्रा भोज्यते तथा बहिर्मुखत्वाभावेन
निरभिमानतया च निद्रालुवत् बालवत् अन्यावेदित-भोग्यभोगकलनः,
प्रारब्धकर्मायत्त-भोगोपि परमुखेन शरीरस्थितिहेतुर्भवति इतिभावः ।
क्वचित्परमात्मनि लब्धधी: लब्धा प्रतिष्ठिता धीः यस्य सः लब्धधी:,
यद्वा क्वचित् कदाचित् लब्धधी व्युत्थितमनाः इदं जगत् स्वप्नालोकित-
लोकवत् मिथ्यात्वेन पश्यन् कश्चित् ब्रह्मविद्वरः अनन्तपुण्यफलभुक् शत-
कोटि - जन्मसु कृतसुकृत फलभूत-मोक्षानन्दानुभवी आस्ते स धन्यः भुवि
मान्यः सकलपूज्य: । एतेन विषयान्विना स्वतः आनन्द: अनुपमः उक्तः
आत्मविद्याफलं । "सोश्नुते सर्वान्कामान् सह ", यावानर्थ उदपाने
(6