This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
"(
 
(C
 
अज्ञानप्रयोज्य: यः हृदयग्रन्थि: बुद्धौ साक्षिण: तादात्म्याध्यासः

तस्य अखण्डाकारवृत्या मूलभूताज्ञाननाशेन अशेषतः निर्वासनतया यदि

विनाश: सकारणं नाशः । तदा इत्यध्याहार्यन् यदीति सत्वात् । स्वतः

अनिच्छोः इच्छारहितस्य विदुषः प्रवृत्तेः कारणं किंतुनु ? सर्वत्र

प्रवृत्तौ इच्छैव कारणं, तदभावे प्रवृत्यभावात् वदन्ति हि " प्रयोजन -

मनुद्दिश्य न मन्दोपि प्रवर्तत" इति अत एव साधनचतुष्टये मुमुक्षुत्वमपि

घटकीकृतं । इच्छा च अन्तःकरणधर्म :
"काम: संकल्प: " इत्यादिना
'

"
इत्येतत्सर्वं मन एव " इतिश्रुतेः । मनसोपि बहिरिच्छा आनन्दरूपात्मा

दर्शनात् स्थिता । तत्र दोषदर्शनेन निर्त्यानत्यनिरतिशयानन्द-रूपात्म-श्रवणमनन-

निदिध्यासनेषु शास्त्रीयेषु मुमुक्षया प्रावर्तिष्ट । आत्मदर्शनेन तत्रापीच्छा

प्राप्तफलत्वान्नास्ति । विचारकाल एव बहिरिच्छा सुतरां नास्ति

वैराग्यस्य परमसाधनत्वात् । तथाच तस्य इच्छासत्वे तत्तादात्म्याध्यासेन

साक्षिणोपीच्छा इति वक्तव्यं । आत्मेच्छापि आत्माज्ञानकालिक्येव ।

अज्ञाननाशे तत्प्रयोज्य-चिज्जडतादात्म्याध्यास-नाशेन आत्यन्तिकी निवृत्ति-

रिच्छाया इति सर्वथापि बहिरन्तर्वा प्रवृत्तिकारणं विषयः कोपि नास्तीति

निष्क्रियात्मनावस्थानं निवृत्तिशब्दार्थः ब्रह्मविद्यायाः दृष्टं फलं ॥४२४॥
 
२२८
 

 
वैराग्यबोधोपरतयः पूर्णतया कदा ज्ञेया इतिप्रश्ने तदवधिधिं शिष्या -

नुग्रहाय उपदिशति । वासनेति ।
 

 
वासनानुदयो भोग्ये वैराग्यस्य तदावधिः ।

अहंभावोदयाभावो बोधस्य परमावधिः ।

लीनवृत्तेरनुत्पत्ति-र्मर्यादोपरतेस्तु सा ॥४२५॥
 

 
भोग्ये वासनाया अनुदयः अनुद्बोध:, अनुभूते विषये पुरस्थितेपि

तत्संस्कारानुद्वोबोधः यदा तदा वैराग्यस्य अवधिः । तदीयं मनः विषयेषु

नष्टमेव कुतो रागप्रसक्तिः वैराग्यस्य परस्यैषा परा काष्ठा प्रदर्शिता ।

अहंभावस्य उदयाभावः अनुत्पत्तिः बोधस्य परमावधिः । अहं ब्रह्म इत्यपि

बाधायां सामानाधिकरण्यम् । अतः सर्वात्मके अहन्त्वमपि कल्पितमेव ।

अत एवोक्तं " वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया " इति । यदहन्त्वे

न ज्ञातं तद् ब्रह्म इत्येवार्थः अहं ब्रह्मेत्यस्य, यः चोरः स स्थाणुरितिवत् ।