2023-02-20 14:43:10 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
"(
(C
अज्ञानप्रयोज्य: यः हृदयग्रन्थि: बुद्धौ साक्षिण: तादात्म्याध्यासः
तस्य अखण्डाकारवृत्या मूलभूताज्ञाननाशेन अशेषतः निर्वासनतया यदि
विनाश: सकारणं नाशः । तदा इत्यध्याहार्यन् यदीति सत्वात् । स्वतः
अनिच्छोः इच्छारहितस्य विदुषः प्रवृत्तेः कारणं किंतु ? सर्वत्र
प्रवृत्तौ इच्छैव कारणं, तदभावे प्रवृत्यभावात् वदन्ति हि " प्रयोजन -
मनुद्दिश्य न मन्दोपि प्रवर्तत" इति अत एव साधनचतुष्टये मुमुक्षुत्वमपि
घटकीकृतं । इच्छा च अन्तःकरणधर्म :
काम: संकल्प: " इत्यादिना
' इत्येतत्सर्वं मन एव " इतिश्रुतेः । मनसोपि बहिरिच्छा आनन्दरूपात्मा
दर्शनात् स्थिता । तत्र दोषदर्शनेन निर्त्यानरतिशयानन्द-रूपात्म-श्रवणमनन-
निदिध्यासनेषु शास्त्रीयेषु मुमुक्षया प्रावतिष्ट । आत्मदर्शनेन तत्रापीच्छा
प्राप्तफलत्वान्नास्ति । विचारकाल एव बहिरिच्छा सुतरां नास्ति
वैराग्यस्य परमसाधनत्वात् । तथाच तस्य इच्छासत्वे तत्तादात्म्याध्यासेन
साक्षिणोपीच्छा इति वक्तव्यं । आत्मेच्छापि आत्माज्ञानकालिक्येव ।
अज्ञाननाशे तत्प्रयोज्य-चिज्जडतादात्म्याध्यास-नाशेन आत्यन्तिकी निवृत्ति-
रिच्छाया इति सर्वथापि बहिरन्तर्वा प्रवृत्तिकारणं विषयः कोपि नास्तीति
निष्क्रियात्मनावस्थानं निवृत्तिशब्दार्थः ब्रह्मविद्यायाः दृष्टं फलं ॥४२४॥
२२८
वैराग्यबोधोपरतयः पूर्णतया कदा ज्ञेया इतिप्रश्ने तदवधि शिष्या -
नुग्रहाय उपदिशति । वासनेति ।
वासनानुदयो भोग्ये वैराग्यस्य तदावधिः ।
अहंभावोदयाभावो बोधस्य परमावधिः ।
लीनवृत्तेरनुत्पत्ति-र्मर्यादोपरतेस्तु सा ॥४२५॥
भोग्ये वासनाया अनुदयः अनुद्बोध:, अनुभूते विषये पुरस्थितेपि
तत्संस्कारानुद्वोधः यदा तदा वैराग्यस्य अवधिः । तदीयं मनः विषयेषु
नष्टमेव कुतो रागप्रसक्तिः वैराग्यस्य परस्यैषा परा काष्ठा प्रदर्शिता ।
अहंभावस्य उदयाभावः अनुत्पत्तिः बोधस्य परमावधिः । अहं ब्रह्म इत्यपि
बाधायां सामानाधिकरण्यम् । अतः सर्वात्मके अहन्त्वमपि कल्पितमेव ।
अत एवोक्तं " वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया " इति । यदहन्त्वे
न ज्ञातं तद् ब्रह्म इत्येवार्थः अहं ब्रह्मेत्यस्य, यः चोरः स स्थाणुरितिवत् ।