This page has been fully proofread once and needs a second look.

37
 
श्रीविवेकचूडामणिः सव्याख्यः
 
नित्यशुद्ध-बुद्धमुक्तस्वभावं परं ब्रह्मैव अन्यत्सर्व मिथ्या " इत्यादिवाक्यं,

तस्य, सत्यं अबाधितार्थबोधकं इतिबुध्या, अवधारणा दृढविश्वासः,

यया वस्तूपलभ्यते सा श्रद्धा इति सद्भिः कथितेत्यन्वयः ॥२६॥
 

 
एतादृश - श्रद्धावतएव समाधानं सम्यक्सिद्धयतीति तदनन्तरं

समाधानं निरूपयति । सम्यगिति ।
 

 
सम्यगास्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा ।

तत्समाधानमियुत्क्तं न तु चित्तस्य लालनम् ॥ २७ ॥
 

 
यद्यपि स्वलक्ष्ये नियतावस्थारूप-शमापेक्षया भेदो न लक्ष्यते ईदृशे

समाधाने, "तथापि मुहुर्मुहुः दोषदृष्ट्या विषयेभ्यो विरज्य स्वलक्ष्ये नियता-

वस्था " इत्यनेन "यतो यतो निश्चरति मनश्चंचलमस्थिरम् । ततस्ततो

नियम्यैतत् आत्मन्येव वशं नयेत् ।" इति गीतोक्तरीत्या शमावस्थायां प्रयत्न-

विशेषोऽपेक्ष्यते संकल्प-विकल्पात्मकस्य मनसः स्थिरीकरणे । अत एवात्र

अध्यवसायात्मिकायाः बुद्धेः शुद्धे ब्रह्मणि सम्यगास्थापनं सर्वदा इत्यनेन -

संकल्प-विकल्प-विनिर्मुक्तत्वं अन्तःकरणस्य प्रकृते कथितं भवति । अत

एव मनश्शब्दं विहाय निर्णयात्मक-वृत्तिमद्बुद्धि - शब्द: प्रायोजि । तत्रापि

शुद्धे ब्रह्मणीति निर्गुणं कथ्यते सर्वोपाधिविनिर्मुक्तं । शमनिरूपणावसरे

स्वलक्ष्ये नियतावस्थेत्यनेन सगुणे नियतावस्थानेपि शान्तत्वं मनसो

वक्तुं शक्यम् । शम इति साधनं कथ्यते, समाधानं तस्य फलं तस्यैव

परिपाक इति यावत् । लोके वालकाबालकाः विशेषतो रुदन्ति चेत् तदिष्टं दत्वा

समादधते जना:, तद्वत् मनसो यथेष्टं विषयमार्ग-संचरणं न समाधान-

मित्याह न तु चित्तस्य लालनमिति । यद्वा "शुभाशुभाभ्यां मार्गाभ्यां

वहन्ती वासनासरित् । पौरुषेणप्रयत्नेन योजनीया शुभे पथि " ।

अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् । स्वमनः पुरुषार्थेन लेन बलिनां
वर

वर।
अशुभाच्चालितं याति शुभं तस्मादपीतरत् । जन्तोश्चित्तं तु

शिशुवत् तस्मात्तच्चालयेद्लात् । समतासान्त्वनेनाशु न द्रागिति शनैश्शनैः ।

"पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् " । इति वासिष्ठरीत्या चालनं

लालनं वा शमादिसाधनत्वेन पूर्वमपेक्ष्यते । न तु फलीभूतसमाधाना-

वस्थायां, तदाभ्यासं विनापि शमादिसंपादनकाले कृतप्रयत्नेनैव क्षीण-
"