This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
तत्र निवृत्तिमुपपादयति । यदिति ।
 

 
यत्कृतं भ्रान्तिवेलायां नानाकर्म जुगुप्सितम् ।

पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ॥ ४२२॥
 
२२७
 

 
विद्याफलं स्यादसतो निवृत्तिः
 

प्रवृत्तिरज्ञानफलं यदीक्षितम् ।

तज्ज्ञा-ज्ञयोर्यन्मृगतृष्णिकादौ
 

नोचेद् विदो दृष्टफलं किमस्मात् ॥४२३॥
 

 
अविवेक-विवेकयोः एतावति वैलक्षण्ये विवेकफलभूतायां विद्यायां

परमात्मविषयिण्यां किं वक्तव्यमिति भावेनाह । यत्कृतमिति । भ्रान्ति

वेलायां जुगुप्सितं नाना कर्म यत्कृतं तत् कर्म विवेकेन पश्चात् कथं

कर्तुमर्हतीत्यनेन विवेकिनः यथा जुगुप्सित -कर्मभ्यो निवृत्तिः एवं विद्यावतः

प्राप्याभावात् ब्रह्मनिष्ठतया च सर्वकर्मनिवृत्तिरिति भावः । इदं फलं लोक-

दृष्टमित्याह विद्येति । विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तद्

ईक्षितं दृष्टं तज्ज्ञाज्ञयोः। यत् यस्मात्कारणात् मृगतृष्णिकादौ आदिपदेन

शुक्तिरजतादिकं ग्राह्यम् । मृगतृष्णिकेति ज्ञानवान् न जलार्थं मरुभूमौ

प्रवर्तते । मरुभूमौ सूर्यकिरणपाते जलवद् भासते इति ज्ञानशून्यस्तु मरुभूम्य-

ज्ञानेन तत्र जलभ्रान्त्या प्रवर्तते नेष्टं लभते, विफलप्रवृत्तिमान्भवति। तत्

तस्मात्कारणात् विद्याफलं असतो निवृत्तिः अज्ञानफलं प्रवृत्तिः इतीक्षितं

नोचेदेवं विदः ज्ञानिनः अस्माद् असन्निवृत्तिरूपात् दृष्टं फलं किं । प्रकृते

ब्रह्मविद्याविषये तु असच्छब्देन अनात्मा गृह्यते ब्रह्मभिन्नं सर्वं । पूर्व-

मज्ञानावस्थायां तत्र प्रवृत्तिरासीत् अलब्धस्वरूपानन्दत्वात् । इदानीं तु

स्वात्मानं विदितवतः तत्र सर्वत्र मिथ्यात्वज्ञानेन नैव प्रवृत्तिः इति असन्नि-

वृत्तिः विद्याफलं ॥४२३॥
 

 
प्रवृत्तिकारणाभावाच्च निवृत्तिरित्याह । अज्ञानेति । अनिच्छोरित्य-

नेन परमा तृप्तिरप्युक्ता भवति ।
 

 
अज्ञान - हृदयग्रन्थे - विनाशो यद्यशेषतः ।

अनिच्छोविदुषः किंतु प्रवृत्तेः कारणं स्वतः ॥४२४॥