This page has been fully proofread once and needs a second look.

२२६
 
श्रीविवेकचूडामणिः सव्याख्यः
 
असंकुचितं भवति । तस्मादभ्यास - वैराग्याभ्यां सम्यङ्मनो निरुध्य विचारे

क्रियमाणे बोधः अवश्यंभावी यदि न जातः वैराग्यरूप - साधनं न पूर्ण-

मस्तीति ज्ञातव्यम् । ततः तद्दार्ढ्याय प्रयत्नः कार्यः । एवं बोधे उपनिष-

ज्जन्ये आत्मसाक्षात्कारे जाते असंदिग्धाविपर्यस्तात्म-परोक्षज्ञाने वा जाते

उपरतिः तस्य बोधस्य फलं । ज्ञात्वापि बाह्येभ्यः निवृत्यभावे मनसः दृढं

ज्ञानं न जातमित्येव ज्ञेयम् । तत्र च कारणं वैराग्यापरिपूर्तिरेव । वैराग्यं

पूर्णं दृढ आत्मनिश्चयश्च नो चेद् विद्यावतां भेद: कोवा, विद्यावतामपि

कुतः अनुपरमणं, उपरतौ च मनसः स्वानन्दानुभवाच्छान्तिः निष्क्रियात्मना-

वस्थानं एषैवफलमुपरते: । '"ज्ञानामृतेन तृप्तस्य कृत-कृत्यस्य योगिनः ।

नैवास्ति किंचित्कर्तव्यं अस्ति चेन्न स तत्त्ववित् " इत्युक्तेः ।
 
(6
 

"
 
'
यद्युत्तरोत्तराभावः पूर्वपूर्वं तु निष्फलं " एवं तत्तद्दृष्टफल-निष्पत्तिपर्यन्तं

तत्तत्साधनं न पूर्णं भवतीति ज्ञाने प्रयत्नः साधकेन सुष्ठु कर्तुं शक्यत इति

साधनपूर्णतायै समुपन्यासः ॥ ४२० ॥
 
((
 

 
ब्रह्मविद्यायाः फलमाह । निवृत्तिरिति ।
 

 
निवृत्तिः परमा तृप्तिः आनन्दोनुपमः स्वतः ।

दृष्टदुःखेष्वनुद्वेगः विद्यायाः प्रस्तुतं फलम् ॥४२१ ॥
 

 
निवृत्तिः सर्वेभ्यः कार्येभ्यो निवृत्तिः निर्व्यापारत्वं कर्तव्यानवशेषता ।

परमा तृप्तिः निरंकुशा तृप्तिः कर्तव्यं कृतं प्राप्तव्यं प्राप्तं इतः परं करणीयं

प्राप्तव्यं वा किमपि नास्तीति स्वस्य धन्यधन्यतया सुखविशेष: स्वतः

अनुपमः असदृशः आनन्द: विषयनिरपेक्षः नित्यनिरतिशय सुखं । प्रारब्ध

कर्मणा दृष्टदुःखेषु अनुद्वेगः, अज्ञानी तु दुःखेषु प्रसक्तेषु अहं पापी धिङ् मां

दुरात्मानं इत्यनुतापवान् भवति । यद्यप्ययं विवेक इव भाति । तथापि

पूर्वस्मिन् जन्मनि चेत् पापप्रवृत्ति -प्रतिबन्धकत्वात् सप्रयोजनो भवति

स्म, इदानींतु निष्प्रयोजन इति भ्रान्तिः तमोविकार: । दुःखं तु रागादि-

निमित्तवशात् रजोगुण - विकाररूपा संतापात्मिका चित्तवृत्तिः इति

दुःखोद्वेगयोर्भेदः । ज्ञानिनः अयमुद्वेगो न भवतीति चत्वारि फलानि

निवृत्तिः, निरंकुशा तृप्तिः, असदृशानन्द: निर्विषयः, दृष्टदुःखेषुअनुद्वेग-

श्चेति । विद्यायाः आत्मतत्वज्ञानस्य प्रस्तुतं मुख्यं दृष्टं फलम् ॥४२१॥
 
"