This page has not been fully proofread.

२२६
 
श्रीविवेकचूडामणिः सव्याख्यः
 
असंकुचितं भवति । तस्मादभ्यास - वैराग्याभ्यां सम्यङ्मनो निरुध्य विचारे
क्रियमाणे बोधः अवश्यंभावी यदि न जातः वैराग्यरूप - साधनं न पूर्ण-
मस्तीति ज्ञातव्यम् । ततः तद्दार्याय प्रयत्नः कार्यः । एवं बोधे उपनिष-
ज्जन्ये आत्मसाक्षात्कारे जाते असंदिग्धाविपर्यस्तात्म-परोक्षज्ञाने वा जाते
उपरतिः तस्य बोधस्य फलं । ज्ञात्वापि बाह्येभ्यः निवृत्यभावे मनसः दृढं
ज्ञानं न जातमित्येव ज्ञेयम् । तत्र च कारणं वैराग्यापरिपूर्तिरेव । वैराग्यं
पूर्णं दृढ आत्मनिश्चयश्च नो चेद् विद्यावतां भेद: कोवा, विद्यावतामपि
कुतः अनुपरमणं, उपरतौ च मनसः स्वानन्दानुभवाच्छान्तिः निष्क्रियात्मना-
वस्थानं एषैवफलमुपरते: । 'ज्ञानामृतेन तृप्तस्य कृत-कृत्यस्य योगिनः ।
नैवास्ति किंचित्कर्तव्यं अस्ति चेन्न स तत्त्ववित् " इत्युक्तेः ।
 
(6
 
"
 
'यद्युत्तरोत्तराभावः पूर्वपूर्वं तु निष्फलं " एवं तत्तद्दृष्टफल-निष्पत्तिपर्यन्तं
तत्तत्साधनं न पूर्णं भवतीति ज्ञाने प्रयत्नः साधकेन सुष्ठु कर्तुं शक्यत इति
साधनपूर्णतायै समुपन्यासः ॥ ४२० ॥
 
((
 
ब्रह्मविद्यायाः फलमाह । निवृत्तिरिति ।
 
निवृत्तिः परमा तृप्तिः आनन्दोनुपमः स्वतः ।
दृष्टदुःखेष्वनुद्वेगः विद्यायाः प्रस्तुतं फलम् ॥४२१ ॥
 
निवृत्तिः सर्वेभ्यः कार्येभ्यो निवृत्तिः निर्व्यापारत्वं कर्तव्यानवशेषता ।
परमा तृप्तिः निरंकुशा तृप्तिः कर्तव्यं कृतं प्राप्तव्यं प्राप्तं इतः परं करणीयं
प्राप्तव्यं वा किमपि नास्तीति स्वस्य धन्यधन्यतया सुखविशेष: स्वतः
अनुपमः असदृशः आनन्द: विषयनिरपेक्षः नित्यनिरतिशय सुखं । प्रारब्ध
कर्मणा दृष्टदुःखेषु अनुद्वेगः, अज्ञानी तु दुःखेषु प्रसक्तेषु अहं पापी धिङ् मां
दुरात्मानं इत्यनुतापवान् भवति । यद्यप्ययं विवेक इव भाति । तथापि
पूर्वस्मिन् जन्मनि चेत् पापप्रवृत्ति प्रतिबन्धकत्वात् सप्रयोजनो भवति
स्म, इदानींतु निष्प्रयोजन इति भ्रान्तिः तमोविकार: । दुःखं तु रागादि-
निमित्तवशात् रजोगुण - विकाररूपा संतापात्मिका चित्तवृत्तिः इति
दुःखोद्वेगयोर्भेदः । ज्ञानिनः अयमुद्वेगो न भवतीति चत्वारि फलानि
निवृत्तिः, निरंकुशा तृप्तिः, असदृशानन्द: निविषयः, दृष्टदुःखेषुअनुद्वेग-
श्चेति । विद्यायाः आत्मतत्वज्ञानस्य प्रस्तुतं मुख्यं दृष्टं फलम् ॥४२१॥
 
"