This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
२२५
 
तत्र साक्षात्परंपरया वा साधनानां विशिष्य फले विज्ञाते, पूर्णता
 
तत्र साक्षात्परंपरया वा साधनानां विशिष्य फले विज्ञाते,

मुमुक्षुणा प्रयत्नेन तत्राधातुं शक्यते । तदर्थं वैराग्यबोधोपरतीनां क्रमेण

फलं दर्शयति । वैराग्यस्येति ।
 

 
वैराग्यस्य फलं बोधः बोधस्योपरतिः फलम् ।

स्वानन्दानु-भवाच्छान्तिरेषैवोपरतेः
 
फलम् ॥४२॥
 
"
 

 
विमुक्ति-सौधाग्रतलाधिरोहणं ताभ्यां विना नान्यतरेण सिध्यतीति

कथितं, " वैराग्यान्नपरं सुखस्य जनकं पश्यामि वश्यात्मनः, तच्चेच्छुद्धतरा-

त्मबोध-सहितं स्वाराज्यसाम्राज्यधुक् " इति च । तेन मोक्षे तयोः समतया

हेतुत्वमिव प्रतीयते । यद्यपि " एतद्द्वारमजनमुक्ति-युवतेः " इत्यस्ति

तथापि "सर्वत्रास्पृहया सदात्मनि कुरु प्रज्ञां निजश्रेयसे" इत्युत्तरार्धेपि

वैराग्यबोधयोः हेतुहेतुमद्भावः स्पष्टं न प्रतीयते । ततः स्फुटयति, यद्यपि

विवेक-वैराग्य - शमादिषट्क-मुमुक्षुत्वरूप ब्रह्मविचार-साधनमध्ये वैराग्यं

उपरतिश्च घटकीकृते अथापि तेषां साधनानां अन्तरंगत्वात् विचारकाले

सामान्यतो वर्तमानानामपि श्रवणमननरूप-ज्ञानसाधनानुष्ठानेन उत्त्तमत्वं

संभवेत् अत एव "बाह्यानालंबनं वृत्तेः एषोपरतिरुत्तमा" इत्युक्तम् ।

विचारदशायां निदिध्यासनमन्तरा विपरीतभावनायाः अनिवृत्तेः बाह्या-

नालंबनत्वं दुर्घटं । अथापि शब्दादिविषयानालंबनत्वेन वृत्तिः विचारं

साधयतीति वक्तव्यं । इदानीं तु पंचकोशनिषेध - पुरस्सरं निदिध्यासनेन

स्वनुभवे संपादिते अनात्माविषयकत्वं असंकोचेन वक्तुं शक्यते अतःबोधस्य

उपरतिः फलमित्युच्यते । अतः शमादिषट्कमध्ये शमफल-दमफलत्वेन

कथिताया अप्युपरतेः उत्तमत्व सिध्यनन्तरमेव स्वलक्ष्ये नियतावस्था

मनसश्शम उच्यते " इतिलक्षितशमः शान्तिपदेन स्वानन्दानुभवाच्छान्ति-

रेषैवोपरतेः फलं इत्युक्तं । पूर्वं प्रयत्नेन आप्तवाक्यादिना संपादितानामपि

साधनानां विचारेण प्रकृष्यमाणत्वात् असंकुचित-लक्षणवत्त्वं संभवतीति

भावः । तथाच '"ब्रह्म सत्यं जगन्मिथ्येत्येवं-रूपो विनिश्चयः । सोयं

नित्यानित्य-वस्तु-विवेकः समुदाहृतः" इतिलक्षितः विवेकः पूर्वं परोक्ष-

ज्ञानरूपः विचारात्पश्चात् अपरोक्षत्वं प्राप्नोति । एवं वैराग्यमपि उत्कट-

विषयेच्छाभावरूपं " रसोप्यस्य परं दृष्ट्वा निवर्तते " इति गीतावचनात्

स्वरूपानन्दसाक्षात्कारे विषयेषु वासनात्मनापि रागो न तिष्ठतीति
 
"(
 
8
 
(6