This page has been fully proofread once and needs a second look.

२२४
 
श्रीविवेकचूडामणिः सव्याख्यः
 
नन्दात्मना मनोवृत्तिर्लीना कथं कुतोवा मनसः बहिर्मुखत्वं स्यात् ।

सर्वदापि सुखं मे भूयादिति या स्थिता इच्छा तस्याः विषयः प्राप्तः ।

ततः नित्यनिरतिशयसुखं प्राप्य तदात्मना लीनं मनः न बहिरुदेति ।

वक्ष्यति " कस्तां परानन्दरसानुभूति-मृत्सृज्य शून्येषु रमेत विद्वान् ।

चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत् " इति ॥ ४१७॥
 

 
न तत्पुनः पश्यतीत्याद्युत्तरार्धमुपपादयति । अखण्डेति ।

 
अखण्डानन्द-मात्मानं विज्ञाय स्वस्वरूपतः ।
 

किमिच्छन् कस्य वा हेतोदेंर्देहं पुष्णाति तत्ववित् ॥४१८ ॥
 

 
तत्त्ववित् अखण्डानन्दमात्मानं स्वस्वरूपत्वेन विज्ञाय किमिच्छन्

यदि किंचिदिच्छति तस्याप्राप्तस्य प्राप्तये प्रयत्नं कुर्यात् । देहं विना

प्रयत्नकरणासंभवात् देहं पुष्णीयाच्च । अत उक्तं कस्य वा हेतोः कस्मै

फलायेत्यर्थः । देहं पुष्णाति । उक्तं हि श्रुत्या "आत्मानं चेद्विजानीया-

दयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत्" इति
 
॥ ४१८ ॥
 

 
सम्यग्विदित-तत्त्वस्य लक्षणमाह । संसिद्धस्येति ।
 

 
संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः ।

बहिरन्तस्सदानन्द - -रसास्वादन-मात्मनि ॥४१९ ॥
 

 
साधनचतुष्टय-संपत्ति -पुरस्सरं गुरुमुपसद्य तन्मुखात् वेदान्तवाक्यार्थं

श्रुत्वा मत्वा निदिध्यास्य सम्यगात्मानुभववतः योगिनः परमात्मन्येव

स्थापितचित्तस्य जीवन्मुक्तस्य जीवतोपि सर्वोपाधि-संबन्धविनिर्मुक्तस्य तु

एतत् फलं यदात्मनि अन्तःकरणे बहिरन्तःस्सदानन्दरसास्वादनम् ।

व्युत्थानेपि नानन्दस्य तिरोधानं अखण्डाकारवृत्या आवरणस्य भंजितत्वात्

तदुक्तं बहिरिति । इतरैरपि तदीयमूर्तिदर्शनेन अयं पूर्णानन्द इति निरन्तर-

स्मित-स्मेरावलोकनादिना ज्ञायते इति तस्य पूर्णानन्दात्मना स्थितिः निरंतरैव

अविद्यानिवृत्तिरूप-मोक्षस्यापि दृष्टफलत्वात् ॥४१९॥