This page has not been fully proofread.

२२४
 
श्रीविवेकचूडामणिः सव्याख्यः
 
नन्दात्मना मनोवृत्तिर्लीना कथं कुतोवा मनसः बहिर्मुखत्वं स्यात् ।
सर्वदापि सुखं मे भूयादिति या स्थिता इच्छा तस्याः विषयः प्राप्तः ।
ततः नित्यनिरतिशयसुखं प्राप्य तदात्मना लीनं मनः न बहिरुदेति ।
वक्ष्यति " कस्तां परानन्दरसानुभूति-मृत्सृज्य शून्येषु रमेत विद्वान् ।
चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत् " इति ॥ ४१७॥
 
न तत्पुनः पश्यतीत्याद्युत्तरार्धमुपपादयति । अखण्डेति ।
अखण्डानन्द-मात्मानं विज्ञाय स्वस्वरूपतः ।
 
किमिच्छन् कस्य वा हेतोदेंहं पुष्णाति तत्ववित् ॥४१८ ॥
 
तत्त्ववित् अखण्डानन्दमात्मानं स्वस्वरूपत्वेन विज्ञाय किमिच्छन्
यदि किंचिदिच्छति तस्याप्राप्तस्य प्राप्तये प्रयत्नं कुर्यात् । देहं विना
प्रयत्नकरणासंभवात् देहं पुष्णीयाच्च । अत उक्तं कस्य वा हेतोः कस्मै
फलायेत्यर्थः । देहं पुष्णाति । उक्तं हि श्रुत्या "आत्मानं चेद्विजानीया-
दयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत्" इति
 
॥ ४१८ ॥
 
सम्यग्विदित-तत्त्वस्य लक्षणमाह । संसिद्धस्येति ।
 
संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः ।
बहिरन्तस्सदानन्द - रसास्वादन-मात्मनि ॥४१९ ॥
 
साधनचतुष्टय-संपत्ति पुरस्सरं गुरुमुपसद्य तन्मुखात् वेदान्तवाक्यार्थं
श्रुत्वा मत्वा निदिध्यास्य सम्यगात्मानुभववतः योगिनः परमात्मन्येव
स्थापितचित्तस्य जीवन्मुक्तस्य जीवतोपि सर्वोपाधि-संबन्धविनिर्मुक्तस्य तु
एतत् फलं यदात्मनि अन्तःकरणे बहिरन्तःस्सदानन्दरसास्वादनम् ।
व्युत्थानेपि नानन्दस्य तिरोधानं अखण्डाकारवृत्या आवरणस्य भंजितत्वात्
तदुक्तं बहिरिति । इतरैरपि तदीयमूर्तिदर्शनेन अयं पूर्णानन्द इति निरन्तर-
स्मित-स्मेरावलोकनादिना ज्ञायते इति तस्य पूर्णानन्दात्मना स्थितिः निरंतरैव
अविद्यानिवृत्तिरूप-मोक्षस्यापि दृष्टफलत्वात् ॥४१९॥