This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
२२३
 
नित्यनिर्मलप्रकाशानन्दरूपं ब्रह्म स्वमेत्य प्रत्यक्तया प्राप्य, जड-
मलरूपं उपाधि एतं स्थूलदेहं सुदूरे त्यज । अथ स्वयं निर्मलचिदानन्दरूपं
ब्रह्मैवेति ज्ञानानन्तरं पुनरपि नैव स्मर्यतां दूरं मलभाण्डवत्त्यक्तत्वात् ।
तत्र दृष्टान्तमाह वान्तवस्तु वमनकर्मीभूतं वस्तु स्मरणविषयभूतं स्मृत-
मित्यर्थः कुत्सनाय स्वस्य जुगुप्सायै परकृते निन्दायैवा कल्पते । नहि
मलिनं वस्तु स्मरणीयं, मनसः विकारापत्तेः । निन्दन्ति च लोके त्यक्तं
दुष्टं वस्तु स्मरन्तम् ॥ ४१५ ॥
 
समूलमेतं परिदह्य वह्नौ
 
सदात्मनि ब्रह्मणि निर्विकल्पे ।
ततस्स्वयं नित्यविशुद्धबोधा-
नन्दात्मना तिष्ठति विद्वरिष्ठः ॥ ४१६॥
 
सदात्मनि कालत्रयाबाध्य-स्वरूपे निर्विकल्पे ब्रह्मणि वह्नौ एतत्
शरीरं समूलं अज्ञानेन सह परिदह्य निरवशेषं दग्ध्वा । ततः विद्वरिष्ठः
विदन्तीति विदः तेषु वरिष्ठ: विद्वरिष्ठ: । स्वयं नित्यविशुद्ध-बोधानन्दा-
त्मना तिष्ठति न कदाचिदपि तस्य अनात्मप्रतिभानमिति भावः ॥४१६॥
 
प्रारब्ध-सूत्र-ग्रथितं शरीरं
 
प्रयातु वा तिष्ठतु गोरिव स्रक् ।
न तत्पुनः पश्यति तत्ववेत्ताऽनन्दा-
त्मना ब्रह्मणि लीनवृत्तिः ॥४१७॥
 
सूत्र - ग्रथिता स्रक् माला रज्जुर्वा अलंकरणाद्यर्थं गलादौ बद्धा,
प्रयातु तिष्ठतु वा, यथा गोः तत्र न दृष्टिः तथा प्रारब्धमेव सूत्रं तेन ग्रथितं
रचितं विदुष: अभिमानाभावेपि तदीयतया इतरैर्ज्ञायमानं तत्त्व-
साक्षात्कारात्पूर्व तदीयसुख-दुःखसाक्षात्कारावच्छेदकतया प्रारब्धकर्मणा
निर्मितं शरीरं ब्रह्मसाक्षात्कारानन्तरं प्रयातु म्रियतां तिष्ठतु वा प्राणान्
धारयतु वा । तत्त्ववेत्ता आत्मयाथात्म्यदर्शी तत् शरीरं पुनः स्वस्य ब्रह्मत्व-
ज्ञानानन्तरं न पश्यति । तत्र हेतुः आनन्दात्मना ब्रह्मणि लीना वृत्तिः यस्य
सः लीनवृत्तिः । वृत्तेर्बहिरनागमने हेतुः आनन्दात्मनेति । यदा अनावृता-