This page has not been fully proofread.

२२२
 
श्रीविवेकचूडामणिः सव्याख्यः
 
66
 
सुखम् । यद्-बोधान्नापरी बोधस्तद् ब्रह्मत्यवधारय इति आत्म-
लाभान्नपरं किंचिदस्ति 'आत्मानमन्विच्छ गुहां प्रविष्टं" इत्यादिवचनैः
एतद् बुध्वा बुद्धिमान्स्यात् कृतकृत्यश्च भारत" इतिगीतोक्तेः, आत्मा
वा अरे द्रष्टव्यः एतावदरे खल्वमृतत्वं " इतिश्रुत्या च आत्मसाक्षात्कारस्यैव
परमफलत्वात् तदर्थं यत्नेन पुंस्त्वं बहु-सुकृत - लब्धं पुरुषत्वं सफलीकुरुष्व
स्वरूपप्राप्त्या सार्थकं कुरु पुनर्मा संसार्षीरिति भावः ॥४१२॥
 
66
 
""
 
"
 
(6
 
सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् ।
 
(6
 
भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥ ४१३॥
आत्मानं भावय किंविधं, सर्वोपाधिविनिर्मुक्तं स्थूलसूक्ष्म-कारणरूप-
भेदहेतुभिः विनिर्मुक्तं विशेषेण नितरां वासनातोपि इत्यर्थः । मुक्तं
अस्पृष्टं, सच्चिदानन्दं अद्वयं आत्मस्थं । एतेन न विप्रकृष्टत्वं तस्य अत्र
वाव किल सत्सौम्य न निभालयसे " इतिश्रुतेः । सूक्ष्मायांबुद्धौ भासमानं
इत्यर्थः। स्वमहिमप्रतिष्ठया तद्भावेन भूयः पुनः अध्वने संसृतये न कल्पसे ।
न स पुनरावर्तते " " मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते " इत्यादि-
श्रुतिस्मृतिभ्यः ॥४१३॥
 
"
 
(6
 
आवृत्यभावमुपपादयति। छायेवेति ।
 
छायेव पुंसः परिदृश्यमान-माभासरूपेण फलानुभूत्या ।
शरीर-माराच्छववन्निरस्तं पुनर्न संधत्त इदंमहात्मा ॥४१४॥
 
महात्मा ब्रह्मभावं प्राप्तः पुरुषः फलानुभूत्या फलं अखण्डाकारवृत्या
अनावृततया अभिव्यक्त-स्वरूपचैतन्यं तस्यानुभूत्या अनुभवेन हेतुना
आभासरूपेण सर्पत्यक्त-निर्मोक इव सर्परूपेण इतरदृष्ट्या पूर्ववत् पुंसः
छायेव आदेहपातं परिदृश्यमानं आराद्दूरे शववन्निरस्तं इदं शरीरं पुनर्न
सन्धत्ते तत्राहंतादिकं न करोति प्रतीतावपि घटादाविव उदासीनस्तत्र
भवतीति भावः ॥४१४॥
 
सतत - विमलबोधा - नन्दरूपं स्वमेत्य,
त्यज जडमलरूपोपाधिमेतं सुदूरे ।
अथ पुनरपि नैव स्मर्यंतां वान्तवस्तु,
 
स्मरणविषयभूतं कल्पते कुत्सनाय ॥४१५॥
 
.