This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
२२१
 
"(
 
"
 
कदापि बन्धरहितं निरीहं निष्कामं निष्क्रियं वा । निरवधि कालतः

देशतः वस्तुतश्च अन्तशून्यं । गगनाभं असंगं निर्मलं। निष्कलं निरवयवं।

निर्विकल्पं विविधकल्पनाशून्यं । पूर्णं ब्रह्म विद्वान् समाधौ हृदि कलयति ।

त्वमप्येयं कलयेति भावः । नित्यत्वान्निरवयवत्वात् च " तदेतद् ब्रह्मापूर्व-

मनपरं" इत्यादिश्रुत्या प्रकृतिविकृतिशून्यं, भावनां कल्पनां अतीतः भावः

स्वभावः यस्य तत् उपनिषदं विना केवलतर्केण अधिगन्तुमशक्यं इत्यर्थः ।

तत् समरसं एकरूपं असमानं असदृशं । मानसम्बन्धदूरं अप्रमेयं श्रुत्यापि

लक्षणया बोध्यमानत्वात् । '"प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा ।

यस्य प्रसादात् सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते ।" इति सुरेश्वराचार्य-

वचनात्, स्वयं सिद्धे प्रत्यग्रूपे तस्मिन् वेद्यवेदितृ-वेदनादि-भेदापनायक-

श्रुतेरपि ताटस्थ्यात् । यद्वा मानं प्रत्यक्षादिप्रमाणं तत्सम्बंधदूरं तत्सम्बन्धः

मेयत्वं तज्जन्यप्रमाविषयत्वं तद्दूरं तद्रहितमिति यावत् । निगमवचन-

सिद्धं सदा विद्वदनुभवगोचरं । हृदीत्यादि पूर्ववत् । अजरं अपक्षयशून्यं

अमरं नाशरहितं अस्ताभासवस्तु-स्वरूपं अस्ताः गताः आभासाः विकल्पाः
यस्मि

यस्मिं
स्तत् अस्ताभासं तच्च तत् वस्तु च तत्स्वरूपं । स्तिमितसलिलराशि

प्रख्यं निस्तरंग- जलराशिनिश्चलं । आख्याविहीनं नामरहितं जात्यादि-

प्रवृत्ति - -निमित्तविरहात् "ते यदन्तरा" इतिश्रुतेः । शमितगुणविकारं

निर्गुणं निर्विकारं शाश्वतं अनादिसिद्धं शान्तं अपरिणामि । एकं अद्वितीयं

हृदि कलयति विद्वान् समाधौ पूर्णं ब्रह्म ॥ ४११॥
 

 
समाहितान्तःकरणः स्वरूप

विलोकयात्मान-मखण्डवैभवम् ।
 

विच्छिन्धि बन्धं भवगन्ध-गन्धिलं

यत्नेन पुंस्त्वं सफलीकुरुष्व ॥ ४१२॥
 

 
स्वरूपे परमात्मनि समाहितान्तःकरणः निश्चलतया स्थापितमनाः सन्

अखण्डवैभवं अखण्डं वैभवं विभुत्वं यस्य तं आत्मानं अव्याकृताकाशस्यापि

कल्पनाधिष्ठानं विलोकय साक्षात्कुरु । भवगन्धगन्धिलं संसारवासना-

वासितं बन्धं अज्ञानं विच्छिन्धि नाशय "अविद्यास्तंमयो मोक्षस्सा च

बन्ध उदाहृतः" इत्युक्तेः । यत्नेन "यल्लाभान्नापरो लाभो यत्सुखान्नापरं
 
(6