2023-02-20 14:43:09 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
२२१
"(
"
कदापि बन्धरहितं निरीहं निष्कामं निष्क्रियं वा । निरवधि कालतः
देशतः वस्तुतश्च अन्तशून्यं । गगनाभं असंगं निर्मलं। निष्कलं निरवयवं।
निर्विकल्पं विविधकल्पनाशून्यं । पूर्णं ब्रह्म विद्वान् समाधौ हृदि कलयति ।
त्वमप्येयं कलयेति भावः । नित्यत्वान्निरवयवत्वात् च " तदेतद् ब्रह्मापूर्व-
मनपरं" इत्यादिश्रुत्या प्रकृतिविकृतिशून्यं, भावनां कल्पनां अतीतः भावः
स्वभावः यस्य तत् उपनिषदं विना केवलतर्केण अधिगन्तुमशक्यं इत्यर्थः ।
तत् समरसं एकरूपं असमानं असदृशं । मानसम्बन्धदूरं अप्रमेयं श्रुत्यापि
लक्षणया बोध्यमानत्वात् । 'प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा ।
यस्य प्रसादात् सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते । इतिसुरेश्वराचार्य-
वचनात्, स्वयं सिद्धे प्रत्यग्रूपे तस्मिन् वेद्यवेदितृ-वेदनादि-भेदापनायक-
श्रुतेरपि ताटस्थ्यात् । यद्वा मानं प्रत्यक्षादिप्रमाणं तत्सम्बंधदूरं तत्सम्बन्धः
मेयत्वं तज्जन्यप्रमाविषयत्वं तद्दूरं तद्रहितमिति यावत् । निगमवचन-
सिद्धं सदा विद्वदनुभवगोचरं । हृदीत्यादि पूर्ववत् । अजरं अपक्षयशून्यं
अमरं नाशरहितं अस्ताभासवस्तु-स्वरूपं अस्ताः गताः आभासाः विकल्पाः
यस्मिस्तत् अस्ताभासं तच्च तत् वस्तु च तत्स्वरूपं । स्तिमितसलिलराशि
प्रख्यं निस्तरंग- जलराशिनिश्चलं । आख्याविहीनं नामरहितं जात्यादि-
प्रवृत्ति - निमित्तविरहात् "ते यदन्तरा" इतिश्रुतेः । शमितगुणविकारं
निर्गुणं निर्विकारं शाश्वतं अनादिसिद्धं शान्तं अपरिणामि । एक अद्वितीयं
हृदि कलयति विद्वान् समाधौ पूर्णब्रह्म ॥ ४११॥
समाहितान्तःकरणः स्वरूप
विलोकयात्मान-मखण्डवैभवम् ।
विच्छिन्धि बन्धं भवगन्ध-गन्धिलं
यत्नेन पुंस्त्वं सफलीकुरुष्व ॥ ४१२॥
स्वरूपे परमात्मनि समाहितान्तःकरणः निश्चलतया स्थापितमनाः सन्
अखण्डवैभवं अखण्डं वैभवं विभुत्वं यस्य तं आत्मानं अव्याकृताकाशस्यापि
कल्पनाधिष्ठानं विलोकय साक्षात्कुरु । भवगन्धगन्धिलं संसारवासना-
वासितं बन्धं अज्ञानं विच्छिन्धि नाशय "अविद्यास्तंमयो मोक्षस्सा च
बन्ध उदाहृतः" इत्युक्तेः । यत्नेन "यल्लाभान्नापरो लाभो यत्सुखान्नापरं
(6