This page has been fully proofread once and needs a second look.

२२०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
भ्रान्तिनिरासोपायमाह। चित्तेति ।
 

 
चित्तमूलो विकल्पोयं चित्ताभावे न कश्चन ।

अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ ॥४०८॥
 

 
अयं विकल्पः चित्तं बहिर्मुखं मनः मूलं यस्य सः चित्तमूलः ।

चित्ताभावे सुषुप्तौ न कश्चन अतः स्वरूपसती अविद्यापि चित्ताभावे

न स्वकार्य-समर्था । सा जाग्रत्स्वप्नयोः चित्तात्मना परिणममाना विश्वं

जनयति । अतः चित्तं प्रत्यग्रूपे तव स्वरूपभूते परात्मनि समाधेहि संस्थापय,

तेन अविद्यया साकं सर्वेषां विकल्पानां बाध एवेति भावः ॥ ४०८॥
 

 
परमात्मनि मनः समाधापयितुं शब्दैर्विध्यति । किमपीत्यादिना

त्रिभिःश्लोकैः ।
 

 
किमपि सततबोधं केवलानन्दरूपं
 

निरुपममतिवेलं नित्यमुक्तं निरीहम् ।

निरवधि गगनाभं निष्फलं निर्विकल्पं
 

हृदि कलयति विद्वान् ब्रह्म पूर्ण समाधौ ॥ ४०९ ॥
 

 
प्रकृति - -विकृतिशून्यं भावनातीत -भावं

समरसमसमानं मानसंबन्धदूरम् ।

निगमवचन-सिद्धं नित्यमस्मत्प्रसिद्धं
 

हृदि कलयति विद्वान् ब्रह्म पूर्ण समाधौ ॥४१० ॥
 

 
अजरममर-मस्ताभास-वस्तुस्वरूपम्
 

स्तिमित-सलिलराशि प्रख्यमाख्या-विहीनम् ।

शमितगुण-विकारं शाश्वतं शान्तमेकं
 

हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४११॥

 
किमपि वागगोचरं, सततः नित्यश्चासौ बोधश्च तं अखण्डज्ञानरूपं,

<error>
कवलानन्दरूपं<error><fix>केवलानन्दरूपं</fix> दुःखासंभिन्न-निरुपाधिक-सुखरूपं, तेन स्वयंप्रकाश-नित्य-

सुखरूपतया परमपुरुषार्थत्वमुक्तम् । निरुपमं "न तस्य प्रतिमास्ति " इति

श्रुतेः । वेलामतीत्य वर्तमानं अतिवेलं विश्वातीतमित्यर्थः । नित्यमुक्तं
 
"