This page has not been fully proofread.

२२०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
भ्रान्तिनिरासोपायमाह। चित्तेति ।
 
चित्तमूलो विकल्पोयं चित्ताभावे न कश्चन ।
अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥ ॥४०८॥
 
अयं विकल्पः चित्तं बहिर्मुखं मनः मूलं यस्य सः चित्तमूलः ।
चित्ताभावे सुषुप्तौ न कश्चन अतः स्वरूपसती अविद्यापि चित्ताभावे
न स्वकार्य-समर्था । सा जाग्रत्स्वप्नयोः चित्तात्मना परिणममाना विश्वं
जनयति । अतः चित्तं प्रत्यग्रूपे तव स्वरूपभूते परात्मनि समाधेहि संस्थापय,
तेन अविद्यया साकं सर्वेषां विकल्पानां बाध एवेति भावः ॥ ४०८॥
 
परमात्मनि मनः समाधापयितुं शब्दैविध्यति । किमपीत्यादिना
त्रिभिःश्लोकैः ।
 
किमपि सततबोधं केवलानन्दरूपं
 
निरुपममतिवेलं नित्यमुक्तं निरीहम् ।
निरवधि गगनाभं निष्फलं निर्विकल्पं
 
हृदि कलयति विद्वान् ब्रह्म पूर्ण समाधौ ॥ ४०९ ॥
 
प्रकृति - विकृतिशून्यं भावनातीत भावं
समरसमसमानं मानसंबन्धदूरम् ।
निगमवचन-सिद्धं नित्यमस्मत्प्रसिद्धं
 
हृदि कलयति विद्वान् ब्रह्म पूर्ण समाधौ ॥४१० ॥
 
अजरममर-मस्ताभास-वस्तुस्वरूपम्
 
स्तिमित-सलिलराशि प्रख्यमाख्या-विहीनम् ।
शमितगुण-विकारं शाश्वतं शान्तमेकं
 
हृदि कलयति विद्वान् ब्रह्म पूर्ण समाधौ ॥४११॥
किमपि वागगोचरं, सततः नित्यश्चासौ बोधश्च तं अखण्डज्ञानरूपं,
कवलानन्दरूपं दुःखासंभिन्न-निरुपाधिक-सुखरूपं, तेन स्वयंप्रकाश-नित्य-
सुखरूपतया परमपुरुषार्थत्वमुक्तम् । निरुपमं "न तस्य प्रतिमास्ति " इति
श्रुतेः । वेलामतीत्य वर्तमानं अतिवेलं विश्वातीतमित्यर्थः । नित्यमुक्तं
 
"