2023-02-20 14:43:08 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
२१९
निर्विकल्पे ब्रह्मणि विश्वं नास्ति नैवास्तीत्यर्थः । तत्र मानं परतत्व-
बोधादिति । परस्य ब्रह्मणः यत्तत्वं निष्प्रपंचत्वरूपयथात्म्यं श्रुतिबोधितं
तस्य बोधात् अनुभवादित्यर्थः । नहि यथाप्रमाणं अनुभवानन्तरं संशय-
विपर्ययादिकं । अतः विश्वं नैवास्ति । तत्र दृष्टान्तः, हि यतः, कालत्रयेपि
गुणे रज्वां अहिः सर्पः नेक्षितः, मृगतृष्णिकायां मरुमरीचिकासु अंबुबिन्दुरपि
तद्वत् पूर्वमज्ञानात् भ्रान्त्या प्रतिपन्नमपि वस्तु न सदिति भावः ।
"नाभावो विद्यते सतः " इतिगीतोक्तेः विद्वदनुभवाच्च । शुक्तिका हि
रजतवदवभासते एकश्चन्द्रः
सद्वितीयवत् इत्यादिलौकिकानुभवात्
न।
"
आरोपित-मिथ्यात्वे न विसंवादः । अतः श्रुतिरपि "यत्र हि द्वैतमिव भवति
तदितर इतरं पश्यति । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति "
इति इवकारानुबन्धेन द्वैतस्य मिथ्यात्वं सूचयति ॥४०५॥
तद्विषये स्फुटार्थां श्रुतिमाह। मायेति ।
मायामात्रमिदं द्वैतं अद्वैतं परमार्थतः ।
इति ब्रूते श्रुतिस्साक्षात्सुषुप्तावनुभूयते ॥४०६॥
मायया मीयते प्रतीयत इति मायामात्रं इदं दृश्यं द्वैतं भेद इत्यर्थः ।
परमार्थतः सत्यभूतं अद्वैतं निर्भेदं ब्रह्म इत्यर्थः । इति साक्षात् वाच्यवृत्या
श्रुतिब्रूते । सर्वैरपि साक्षात्सुषुप्तावनुभूयते अतः नात्र विवादावसर
इति भावः । अनुभवस्य अपौरुषेयतया निर्दोषश्रुत्यनुसारित्वात् ॥४०६॥
अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् ।
पण्डितैरज्जु-सर्पादौ विकल्पो भ्रान्तिजीवनः ॥ ४०७॥
" सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति" इति -
कैवल्योपनिषदि तमोभिभूतइतिशब्देन तमसः स्थिति ब्रूते श्रुतिरिति चेत्
तस्य तत्र कल्पितत्वात् समाधावसत्वाच्च अवस्तुत्वमित्याह आरोप्यस्य
अधिष्ठानादनन्यत्वं व्यतिरेकेणाभावः रज्जुसर्पादौ पण्डितैः निरीक्षितं ।
विकल्प: भेदग्रहस्तु भ्रान्तिजीवनः भ्रान्त्या जीवतीति भ्रान्तिजीवनः भ्रान्ति
मूलक इत्यर्थः । भ्रान्त्यभावे भेद: नैव प्रतीयते भेदविषयकसम्यज्ज्ञाना-
भावात् ॥४०७॥