This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
विभक्तत्वाभावात् । अत एव ततोन्यद्विभक्तं इति पदद्वयं । अज्ञानोपहित-
चैतन्यस्यैव सुषुप्तिसाक्षित्वात् । तस्याज्ञानस्य अधिष्ठाने तत्रैव कल्पित -
त्वात् कल्पिते अधिष्ठानभेदाभावात् । यद्यपीदं सर्वदा समानं तथापि
कार्योपाधीनां लीनत्वात् सुषुप्तौ सुगममिति सुषुप्त्यवस्थामाश्रित्य श्रोतृ-
बुध्यारोहाय निष्प्रपंचत्वमात्मनः प्रतिपाद्यते । यदि कश्चित् जाग्रत्पुरुषः
सुषुप्ति स्थितं चिन्तयन् मनसा अज्ञानं विविच्यात् तदा अन्तःकरणवृत्तेरेव
अज्ञानभंजकत्वात् तदीयं मनः निष्प्रपंच- ब्रह्माकारं जातमेवेति तस्या
एवावस्थायाः ज्ञानावस्थात्वात् तदा केवलं अखण्डब्रह्मैव मनसावाप्तमिति
सिद्धम् समीहितमिति श्रुतेरभिप्राय: । विक्षेपाभावस्य उभयत्र समत्वात्
आवरणसत्त्वासत्वाभ्यामेव सुषुप्तिसमाध्योर्भेदात् । अत एवह्युक्तं "निद्रा
समाधिस्थितिः" इति। इदं वचनं जाग्रता पुरुषेण सुखमयी सुषुप्तिः
चिरं चिन्त्यते चेत् तस्य समाधिः भवतीत्यभिप्रायेणैव । तथाच एकात्मके
परे तत्वे भेदवार्ता इत्यनेन भेदो तैवास्ति तद्वार्तापि कथं भवेत् विकारा-
कारविशेषाभावात् यदाह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते-
ऽनिलयनेऽभयं प्रतिष्ठिां विन्दते । अथसोऽभयं गतो भवति ।
नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा" इतिश्रुतेः ।
यदि भेदः सत्यः स्यात् सुषुप्ताववलोक्येत । यद्यज्ञानं न किंचिदवेदिषं इति
सुषुप्तौ विन्नमित्युच्येत तस्यापि ज्ञानमात्रायां समाध्यवस्थायां दग्धत्वात्
न सत्यत्वमिति अज्ञानस्य तत्कार्याणां च अत्यन्तं नष्टत्वात् "आदावन्ते
च यन्नास्ति वर्तमानेपि तत्तथा " इत्युक्त्या नास्ति नासीत् न भविष्यतीति
त्रैकालिकनिषेधप्रतियोगित्वरूप-मिथ्यात्वं सिद्धमिति भावः ॥ ४०४॥
 
33
 
२१८
 
((
 
तदुपपादयति । न ह्यस्तीति ।
 
नह्यस्ति विश्वं परतत्वबोधात्
सदात्मनि ब्रह्मणि निर्विकल्पे ।
कालत्रये नाप्यहिरीक्षितो गुणे
 
नह्यम्बुबिन्दु - मृगतृष्णिकायाम् ॥४०५ ॥
 
'यत्र
 
(6
 
सम्यज्ज्ञानं हि वस्तुसिद्धिहेतुः । पूर्वंतु अज्ञानात् भ्रान्तिरास मनसः ।
र्यमाणे दीपकलिकायमाने तम इव अज्ञानं नष्टमिति सदात्मनि