This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ॥२४॥
 
तटाकोदकस्य तटाकछिद्रद्वारा निर्गत्य यथा क्षेत्राद्यात्मना परिणामः,
एवमन्तस्थस्य मनसः श्रोत्रादिछिद्रद्वारा बहिरागत्य शब्दादिविषयाकारेण
परिणामरूपा वृत्तिर्जायते । निगृहीतेषु च बहिरिन्द्रियेषु अन्तस्थं मनः
न बाह्याकारेण परिणमत इति भावः ॥२४॥
 
१८
 
यदा बाह्यं नालम्बते चित्तं तदा शीतोष्णादि-द्वन्द्वस्य अप्रतीय-
मानत्वात् कर्मकालादिवशात् तत्प्रसक्तावपि तत्सहनरूपा तितिक्षा
सिद्धयतीत्याह। सहनमिति ।
 
सहनं सर्वदुःखानां अप्रतीकारपूर्वकम् ।
चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥ २५ ॥
 
कम्बलव्यजनादिभिः शैत्यौष्ण्यादि-दुःखप्रतीकारः लोकसिद्धः ।
तादृश-सामग्रयभावे किमस्माभिर्दीनैः करणीयमिति चिन्ता, प्रलापश्च ।
विचारसाधन-तितिक्षायास्तथात्वं व्यावर्तयति अप्रतीकार-पूर्वकं चिन्ता -
विलापरहितं यत्सहनं सा तितिक्षेति । दुःखानां दुःखहेतु-शीतोष्णादीना-
मित्यर्थः । चिन्ताविलापादि-सहितस्य मनसः विचारस्य दूरापास्तत्वा-
दिति भावः ॥२५॥
 
इदानीं वस्तूपलब्ध्यसाधारण-कारणं श्रद्धां निरूपयति । शास्त्रस्येति ।
 
शास्त्रस्य गुरुवाक्यस्य सत्यबुध्यावधारणा ।
सा श्रद्धा कथिता सद्भिः यया वस्तूपलभ्यते ॥२६॥
 
उक्तं
 
लोकेपि आप्तवाक्ये विश्वासाभावे नैव तदनुसारेण प्रवर्तते । पुरुषः
विचारादौ। किमुतातीन्द्रिये शास्त्रार्थे, अतः सा परमकारणं ।
हि गीतायां अश्रद्धधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां
निवर्तन्ते मृत्युसंसार - वर्त्मनि । इति । यस्तावत् शान्तो दान्त उपरत-
स्तितिक्षुश्च स एव "ब्रह्मैकमेव सत्यं तदेव त्वं अन्यत्सर्वं मिथ्या " इति
गुरुणा वेदान्तैश्चबोध्यमानं वस्तु विश्वसिति इदमेवमेवेति । नान्यस्तादृश-
साधनहीनः इति श्रद्धा तदनन्तरं परिगणिता गुरुवेदान्त-वाक्यविषयिणी ।
शास्त्रं तत्वमस्यादिशास्त्रं गुरुवाक्यं तदनुसारि "नासित्वं संसारी किन्तु
 
(C