This page has been fully proofread once and needs a second look.

श्रीविवेकचूड़ामणिः सव्याख्यः
 
कल्पार्णव-इवात्यन्त-परिपूर्णैकवस्तुनि
 

 

निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०२॥
 

 
प्रलयकाले चत्वारोपि समुद्रा: मिलिताः द्वीपादिशून्यतया केवलं

जलमयं जगत् कुर्वन्तीति पुराणेष्ववगम्यते । तदा सर्वत्र जलमेव न भूभागः

कश्चित् विभाजकाभावात् । चतुर्णामपि समुद्राणां भूभागावस्थायां

विभक्तानां एकीभूतत्वात् कल्पार्णव इत्येकवचनं । तदापि आकाशादिक-

मस्त्येव तथापि सर्वत्र जलं पूर्ण श्रोतृबुध्यारोहाय, इषुरिव सविता

धावतीतिवद्दृष्टान्तः । अत एव अत्यन्तपूर्णत्युक्तम् । ज्यायानाकाशादि-

त्यादिश्रुत्या "पादोस्य सर्वा भूतानि, त्रिपादस्यामृतं दिवि " इति श्रुत्या च

निरुपमभूमनि परमात्मन्येक
-वस्तुनि निर्विकारे निराकारे निर्विशेषे भिदा

कुतः ॥४०२॥
 

 
पूर्वमपि भेदाभावेपि भेदभ्रान्तिकारणं अज्ञानं अवर्तिष्ट ।
तस्य
समूलघातं हतत्वात् इदानीं भेदभ्रान्तिरपि नेत्याह । तेजसीति ।
 

 
तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् ।

अद्वितीये परे तत्वे निर्विशेषे भिदा कुतः ॥ ४०३ ॥
 
२१७
 
एकात्मके परे तत्त्वे भेदवार्ता कथं भवेत् ।
 
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥४०४॥
 
तस्य
 
(1
 

 
तमः अज्ञानं अन्धकारश्च । यत्र परमात्मनि भ्रान्तिकारणं तमः

अज्ञानं तेजसि सूर्यादिप्रकाशे तम इव अन्धकार इव विलीनं नष्टं तस्मिन्

अद्वितीये परे तत्वे निर्विशेषे भिदा कुतः । "विभेदजनकेऽज्ञाने नाश-

मात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदं असंतं कः करिष्यति" इति

प्रमाणात् ॥४०३॥
 
""
 
यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति नतु तद्वितीयमस्ति ततोन्य-
द्वि

 
एकात्मके परे तत्त्वे भेदवार्ता कथं
क्तं यत्पश्येत्" इतिश्रुतेः । वेत् ।
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥४०४॥
 
"यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति नतु तद्वितीयमस्ति ततोन्य-
द्विभक्तं यत्पश्येत्" इतिश्रुतेः । सुषुप्तौ
प्रपंचं न पश्यतीति यत् तत्

तार्किकमत इव जडत्वान्न पश्यतीति मा वेदी: यतः सुषुप्तावपि नित्य-

ज्ञानस्वरूपस्य आत्मनः स्वयंप्रकाशस्य सत्वात् । अतः यदि द्वितीयं स्यात्

पश्येदेव नतु तद्वितीयमस्ति । अज्ञानसत्वेपि शक्ति-शक्तिमतोरैक्यात्