2023-02-20 14:43:08 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूड़ामणिः सव्याख्यः
कल्पार्णव-इवात्यन्त-परिपूर्णैकवस्तुनि
।
निर्विकारे निराकारे निविशेषे भिदा कुतः ॥४०२॥
प्रलयकाले चत्वारोपि समुद्रा: मिलिताः द्वीपादिशून्यतया केवलं
जलमयं जगत् कुर्वन्तीति पुराणेष्ववगम्यते । तदा सर्वत्र जलमेव न भूभागः
कश्चित् विभाजकाभावात् । चतुर्णामपि समुद्राणां भूभागावस्थायां
विभक्तानां एकीभूतत्वात् कल्पार्णव इत्येकवचनं । तदापि आकाशादिक-
मस्त्येव तथापि सर्वत्र जलं पूर्ण श्रोतृबुध्यारोहाय, इषुरिव सविता
धावतीतिवद्दृष्टान्तः । अत एव अत्यन्तपूर्णत्युक्तम् । ज्यायानाकाशादि-
त्यादिश्रुत्या "पादोस्य सर्वा भूतानि, त्रिपादस्यामृतं दिवि " इति श्रुत्या च
निरुपमभूमनि परमात्मन्येक
वस्तुनि निर्विकारे निराकारे निविशेषे भिदा
कुतः ॥४०२॥
पूर्वमपि भेदाभावेपि भेदभ्रान्तिकारणं अज्ञानं अवतिष्ट ।
समूलघातं हतत्वात् इदानीं भेदभ्रान्तिरपि नेत्याह । तेजसीति ।
तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् ।
अद्वितीये परे तत्वे निर्विशेषे भिदा कुतः ॥ ४०३ ॥
२१७
एकात्मके परे तत्त्वे भेदवार्ता कथं भवेत् ।
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥४०४॥
तस्य
(1
तमः अज्ञानं अन्धकारश्च । यत्र परमात्मनि भ्रान्तिकारणं तमः
अज्ञानं तेजसि सूर्यादिप्रकाशे तम इव अन्धकार इव विलीनं नष्टं तस्मिन्
अद्वितीये परे तत्वे निर्विशेषे भिदा कुतः । विभेदजनकेऽज्ञाने नाश-
मात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदं असंतं कः करिष्यति" इति
प्रमाणात् ॥४०३॥
""
यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति नतु तद्वितीयमस्ति ततोन्य-
द्विभक्तं यत्पश्येत्" इतिश्रुतेः । सुषुप्तौ प्रपंचं न पश्यतीति यत् तत्
तार्किकमत इव जडत्वान्न पश्यतीति मा वेदी: यतः सुषुप्तावपि नित्य-
ज्ञानस्वरूपस्य आत्मनः स्वयंप्रकाशस्य सत्वात् । अतः यदि द्वितीयं स्यात्
पश्येदेव नतु तद्वितीयमस्ति । अज्ञानसत्वेपि शक्ति-शक्तिमतोरैक्यात्