This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
२१६
 
क्रियाकारित्वं नास्ति गगनकुसुमादेः एवं यत्पूर्वं सुखदुःखरागभय-क्रोधादिकं
उत्पादयामास तदपि प्रतीतमपि ब्रह्मनिष्ठं प्रति उत्खातदंष्ट्रोरगवत्
न स्वकार्यमाधत्त इति भावः ॥ ३९९ ॥
 
अनात्मवासनानां प्रक्षीणत्वात् एवमुपदेशधारया वासिताद्वैतान्त:-
करणं शिष्यं प्रति द्वैतस्य अत्यन्तमसत्वं सकलवेदान्त- तात्पर्यविषयं अनुभव-
युक्ति दृष्टान्त - श्रुतिभिः उपदिशति । असत्कल्प इत्यादिना ।
 
असत्कल्पो विकल्पोयं विश्वमित्येक वस्तुनि ।
 
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४००॥
 
विश्वमिति यत् अयं विधेयप्राधान्यात्पुल्लिंगम् । विकल्पः विविधं
कल्प्यत इति विकल्पः अज्ञानेन कल्पित एव न वस्तुभूत इत्यर्थः । असत्कल्पः
ईषदसमाप्तौ कल्पप्प्रत्ययः ।
निरंतरं ब्रह्मसमाहितमनसां सप्तमी
भूमिकां गतानां सर्वथा भानाभावात् शशविषाणवदेव । तदितरेषां तु दृष्ट-
नष्टस्वरूपत्वात् शुक्तिरजतादिवत् प्रातिभासिकः इति असन्नेवेत्यनुक्त्वा
असत्कल्प इत्युक्तम् । तथाच मिथ्यात्वेन तेन वस्तुनः ब्रह्मणः सद्वितीयत्वा-
भावेन एकवस्तुनि विकाराकार-विशेषशून्ये गुणगुणिभावावयवावय-
विभाव-जातिव्यक्तिभावादिशून्ये तादात्म्यस्याप्यभावेन भिदा कुतः
 
॥४००॥
 
द्रष्टृदर्शन-दृश्यादि-भावशून्यैक-वस्तुनि ।
 
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥ ४०१ ॥
 
द्रष्टा प्रमाता दर्शनं प्रमितिः, दृश्यं प्रमेयं, आदिपदेन प्रमाण-
परिग्रहः। कर्तृकरणकार्याणि वा । एतत्सर्वं अविद्यावस्थायां । वस्तुतः
निर्विकल्पे केवलाखण्डचिन्मात्रे " यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं कं
पश्येत् " इत्यादिश्रुत्या ज्ञानावस्थायां अज्ञाननाशात् तन्मूलकानां द्रष्ट-
दर्शन-दृश्यादिभावानामभावात् द्रष्टृ-दर्शन-दृश्यादिरूपा ये भावाः तैः शून्यं
यदेकं वस्तु तस्मिन् निर्विकारे विकारशून्ये निराकारे अवयवसंस्थानशून्ये
भिदा भेदः कुतः नैवास्तीत्यर्थः । प्रकृतिविकारभावाद्यभावात् न भेद-
प्रसक्तिरपीति भावः ॥ ४०१ ॥