This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
२१५
 
66
 
आहापीति वा अन्वयः, "अशरीरंवाव सन्तं न प्रियाप्रिये स्पृशतः, आनन्दं

ब्रह्मणो विद्वान् न बिभेति कुतश्चन, तरति शोकमात्मवित्, ज्ञात्वा देवं

मुच्यते सर्वपाशैः, तमेवं विद्वानमृत इह भवति, क्षीणैः क्लेशैः जन्ममृत्यु-

प्रहाणिः, ज्ञात्वा शिवं शान्तिमत्यन्तमेति " इत्यादिः "समाने वृक्षे

पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीश-

मस्य महिमानमिति वीतशोक: " इति च । अनेन श्लोकेन पूर्वश्लोकोप-

दिष्टार्थः फलकथनेन उपपादितः अनात्मज्ञाने दुष्फलं आत्मयाथात्म्यज्ञाने

आत्यन्तिकी दुःखनिवृत्तिरिति ॥३९७॥
 

 
शुद्धशिवाकारत्वं कथमात्मन इति चेदाह । स्वात्मनीति ।

 
स्वात्मन्यारोपिताशेषाभासवस्तु-निरासतः ।

स्वयमेव परं ब्रह्म पूर्णमद्वय-मक्रियम् ॥३९८ ॥
 
"(
 

 
स्वात्मनि आरोपितानि केवलाज्ञानेन कल्पितानि यानि अशेषाभास-

वस्तूनि अनात्मतद्धर्म -रूपाणि तेषां निरासतः श्रुतियुक्तिभिः निदिध्यासनेन

च विनाशनतः स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् । "अन्वेष्टव्यात्म-

विज्ञानात् प्राक्प्रमातृत्वमात्मनः । अन्विष्टस्स्यात् प्रमातैव पाप्मदोषादि-

वर्जितः । गौणमिथ्यात्मनोऽसत्वे पुत्रदेहादिवाबाधनात् । सद् ब्रह्मात्माहमित्येवं

बोधे कार्यं कथं भवेत् ".इत्यभियुक्तोक्तेः " अथायमशरीरोऽमृतः प्राणो

ब्रह्मैव तेज इव " इतिश्रुतेश्च ॥ ३९८ ॥
 

 
आदौ प्रयत्नेन दृश्यं निरुध्य समाधौ क्रियमाणे तत्र निष्ठस्य पूर्वं

प्रतीतमपि दृश्यं शशविषाणवद् भवतीत्याह । समाहितायामिति ।

 
समाहितायां सति चित्तवृत्तौ परात्मनि ब्रह्मणि निर्विकल्पे ।

न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते ततः ॥३९९॥
 

 
सति अबाध्ये परात्मनि निर्विकल्पे ब्रह्मणि चित्तवृत्तौ समाहितायां

निश्चलतया स्थापितायां सत्यां अयं विकल्पः कश्चिदपि न दृश्यते । ततः

प्रजल्पनमात्रः परिशिष्यते " शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः" इति

तल्लक्षणात् । अज्ञानस्य समूलकाषं कषितत्वेन कल्पिततादात्म्यमपि

नास्तीति केवलमखण्डं सच्चिदानन्दमात्रमस्तीति भावः । यथा असतः अर्थ-