This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
२१५
 
66
 
आहापीति वा अन्वयः, अशरीरंवाव सन्तं न प्रियाप्रिये स्पृशतः, आनन्दं
ब्रह्मणो विद्वान् न बिभेति कुतश्चन, तरति शोकमात्मवित्, ज्ञात्वा देवं
मुच्यते सर्वपाशैः, तमेवं विद्वानमृत इह भवति, क्षीणैः क्लेशैः जन्ममृत्यु-
प्रहाणिः, ज्ञात्वा शिवं शान्तिमत्यन्तमेति " इत्यादिः समाने वृक्षे
पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीश-
मस्य महिमानमिति वीतशोक: " इति च । अनेन श्लोकेन पूर्वश्लोकोप-
दिष्टार्थः फलकथनेन उपपादितः अनात्मज्ञाने दुष्फलं आत्मयाथात्म्यज्ञाने
आत्यन्तिकी दुःखनिवृत्तिरिति ॥३९७॥
 
शुद्धशिवाकारत्वं कथमात्मन इति चेदाह । स्वात्मनीति ।
स्वात्मन्यारोपिताशेषाभासवस्तु-निरासतः ।
स्वयमेव परं ब्रह्म पूर्णमद्वय-मक्रियम् ॥३९८ ॥
 
"(
 
स्वात्मनि आरोपितानि केवलाज्ञानेन कल्पितानि यानि अशेषाभास-
वस्तूनि अनात्मतद्धर्म रूपाणि तेषां निरासतः श्रुतियुक्तिभिः निदिध्यासनेन
च विनाशनतः स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् । अन्वेष्टव्यात्म-
विज्ञानात् प्राक्प्रमातृत्वमात्मनः । अन्विष्टस्स्यात् प्रमातैव पाप्मदोषादि-
वर्जितः । गौणमिथ्यात्मनोऽसत्वे पुत्रदेहादिवाधनात् । सद् ब्रह्मात्माहमित्येवं
बोधे कार्यं कथं भवेत् ".इत्यभियुक्तोक्तेः " अथायमशरीरोऽमृतः प्राणो
ब्रह्मैव तेज इव " इतिश्रुतेश्च ॥ ३९८ ॥
 
आदौ प्रयत्नेन दृश्यं निरुध्य समाधौ क्रियमाणे तत्र निष्ठस्य पूर्वं
प्रतीतमपि दृश्यं शशविषाणवद् भवतीत्याह । समाहितायामिति ।
समाहितायां सति चित्तवृत्तौ परात्मनि ब्रह्मणि निर्विकल्पे ।
न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते ततः ॥३९९॥
 
सति अबाध्ये परात्मनि निर्विकल्पे ब्रह्मणि चित्तवृत्तौ समाहितायां
निश्चलतया स्थापितायां सत्यां अयं विकल्पः कश्चिदपि न दृश्यते । ततः
प्रजल्पनमात्रः परिशिष्यते " शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः" इति
तल्लक्षणात् । अज्ञानस्य समूलकाषं कषितत्वेन कल्पिततादात्म्यमपि
नास्तीति केवलमखण्डं सच्चिदानन्दमात्रमस्तीति भावः । यथा असतः अर्थ-